________________
(१०) ॥ श्रीनवतत्त्वपरिशिष्टानि. नं. घ थी ज. (६ थी १०)॥ एते त्रयोपि प्रत्येकं त्रिधा । तथाहि। धर्मास्तिकायस्य स्कंधः देशः प्रदेशः तथा अधर्मास्तिकायस्य प्रयः तथा आकाशास्तिकायस्य प्रयः । एवं नवभेदा अभूवन् । तत्र अस्तीनों प्रदेशानां कायःसमूहः अस्तिकायः । तत्र स्कंधः कीदृग? उच्यते । चतुर्दशरज्ज्वात्मके लोके सकलोऽपि या धर्माऽस्तिकायः स सर्वोऽपि स्कंधः कथ्यते । तस्य धर्मास्तिकायस्य कियन्मात्रो भागो देश उच्यते । तस्य धर्मास्तिकायस्य निर्विभागो भागः प्रदेशः । एवं अधर्मास्तिकायाकाशास्तिकाययोरपि स्कंध-देश-प्रदेशा ज्ञेयाः। तथाद्धा कालः समयादिलक्षणः स च दशमो भेदः। तथा पुद्गलानां चत्वारो भेदाः स्कंध -देश-प्रदेश-परमाणवश्च । तत्र व्यणुकादयः क्रमेण एकादिवृ
या अनन्ताणुकावसानाः स्कंधाः। तेषां कियन्मात्रा भागा देशाः प्रोच्यते। तेषां निर्विभागा भागाः पुनः प्रदेशा उच्यते । परमाणवः पुनः परस्परमसंबद्धा अतीवसूक्ष्माः स्कंधादिकारणरूपा निर्विभागा एव ज्ञ.तव्याः। एवं अजीवां: चतुर्दशभेदा भवंति । अथैतेषां विशेषस्वरूपं प्ररुपयति ॥ , धम्माधम्मा पुग्गल, नह कालो पंच हुंति अजीवा। चलणसहावो धम्मो, थिरसंठाणो अहम्मो य॥२॥९॥
(प्रा० अ०) 'धम्मा०' गाथापूवाई सुगमम् । नवरं धमस्तिकायाद्या अजीवा एव जीवेन सह षड द्रव्याणि। पुदगलं विना चत्वारोऽमी अमूर्त्ता निष्क्रियाश्च, पुद्गलास्तु रूपिणः। रूपं 'रूपस्पादिसन्निवेशो मूतिरिति' वचनात् । तदेषामस्तीनिरूपिणः। तेषामेव रूपादिमरवात्, रूपग्रहणं गन्धादीनामुपलणं, तव्यतिरेकेण तस्यासम्भवात् । अनन्तानन्तपरमाणुप्रचयरूपाः स्कन्धा मांसचक्षुर्गायाः स्तरभकुम्भादयः, तदग्राह्या अचित्तमहास्कन्धादयः । धमाधौं चैकजीवप्रदेश प्रमितासङ्ख्येयप्रदेशौ लोकव्यापिनौ । आकाशमनन्तप्र शं लोकालोकव्यापि, पुद्गलाः पुनरनन्ता लोकवतिन एव । कालस्तु तत्त्वतो वर्तमानरूप एव । अतो न देशप्रदेशकल्पना । गाथापश्चार्द्धन एषां लक्षणं सत्रकार एव व्याचष्टे । 'चल.' गतिलक्षणो धर्मास्तिकायः, स्थिरसंस्थानं पदार्थानामवस्थानं यस्मादस वधर्मास्तिकायः । अवस्थितिलक्षण इत्यर्थः । एतौ हि मनुष्यादिप्रयत्नावप्रयत्नाद्वा पदार्थानां लोके गतिस्थितिहेतू, अलोके त्वेतयोरभावात्सेन्द्रदेवप्रयत्नेनापि