________________
॥ अथ० वृत्त्यादिसमेतं नवतत्त्वप्रकरणम् ॥
(९)
कायावपि, तदेवमेते नव भेदाः। तथैव अद्धा च कालः, स च कालः एकविध एव वर्तमानसमयलक्षणोऽतीतानागतयोधिनष्टानुत्पन्नत्वेनाऽसत्त्वात् । पुद्गलाः,चउहेत्यग्रे वक्ष्यमाणमत्रापि सम्बध्यते। पुद्गलाश्चतुर्धा स्युःसंहतिविशेषभाजः पुद्गलाः स्कन्धाः १, देशाःस्कन्धभागाः२,प्रदेशाः स्कन्धानामेव सूक्ष्मतमभागाः३। परमाणवो निरंशाः, स्कन्धरूपत्वात् परिणताः स्कन्धा देशाः प्रदेशाः परमाणवः, बहुवचनं सर्वेषामानन्त्यख्यापनार्थम् । स्कन्धप्रतिबद्धाः प्रदेशाः स्कन्धारम्भकाः परमाणव इत्यनयोविशेषः। एवमजीवाश्चतुर्दशधा, मूलभेदैः पुनरमी कति स्युरित्याह-॥ ४ ॥
(०) धर्मास्तिकायः, अधर्मास्तिकायः, आकाशास्तिकायः, नित्यावस्थितैकद्रव्यारूपिणो निष्क्रिया लोकव्यापकाः । असङ्ख्यातप्रदेशौ धर्माधम्मौं, अनन्तप्रदेशात्मकं त्वाकाशमिति । प्रत्येक त्रित्रिभेदा भान्ति । तथाहि- धर्मास्तिकायस्कन्धः १, धर्मास्तिकायदेशः २, धर्मास्तिकायप्रदेशः ३, अधर्मास्तिकायस्कन्धः ४, अधर्मास्तिकायदेशः ५, अधर्मास्तिकायप्रदेशः ६, आकाशास्तिकायस्कन्धः ७, आकाशास्तिकायदेशः ८, आकाशास्तिकायप्रदेशः ९, । तत्र लोकव्यापी स्कन्धः, तदेकदेशो देशः, तस्याप्येकतरो देशः प्रदेश इति त्रयाणामपि धर्मास्तिकायादीनां नव भेदाः। तथैव अध्धा कालो वर्त्तनापरिणामक्रियापरापरत्वस्वरूपः । अयमेक एक स्कन्धादिरहितत्वात् , एवं दश। चकारात् पुद्गलास्तिकायः। सङ्ख्यातासङ्ख्यातानन्तप्रदेशमयः स्पर्शरसगन्धवर्णवान् शबन्धसूक्ष्मस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवांश्च, स च स्कन्धदेशप्रदेशकेवलपरमाणुभेदाच्चतुर्दा । एवं चतुर्दश । तत्र केवलपरमाणुरूपः यादिपरमाणुसंयोगाभागत , इत्यजीवश्चतुर्दशधा स्यादिति गाथार्थ । अजीवस्योत्तरभेदान् गाथा?नाह
(सा० अ०) अजीवतत्त्वमाह । 'धम्माधम्मेति'-एते चतुर्दशभेदा अजीवानां । धर्मास्तिकायः अधर्मास्तिकायः आकाशास्तिकायः