________________
vvvvvv
(८) ॥ श्रीनवतत्वपरिशिष्टानि. नं. घ थी ज. (६ थी १० ) ।। [आहारसरीरइंदिय, पज्जत्ती आणपाण भासमणे। चउ पंच पंच छप्पिय, इगविगला सन्निसन्नीणं ॥३॥६॥
[ (अ०) पूर्व व्याख्यातस्वरूपा] [पणिदियत्तिबलूसा-साऊदसपाण चऊ छ सग अट्ट । इगदुति चउरिंदीणं, असन्निसन्नीण नव दस य ॥४॥]७॥
[(अ०)पञ्चेन्द्रियाणि स्पर्शनादीनि, त्रयो बला मनोबलप्रभृतयः, उच्छ्वासः, आयुश्चेति दश, प्राणाः संसारिजीवलक्षणानि, तेषु च चस्वारः षट् सप्ताष्टौ क्रमशः एकद्वित्रिचतुरिन्द्रियाणां, असंज्ञिसंज्ञिनौनवदश च क्रमशः, अयं भावः एकेन्द्रियाणां स्पर्शनेन्द्रियकाय- . बलोच्छवासायूरूपाश्चत्वारः प्राणाः, द्वीन्द्रियाणां रसनेन्द्रियवचोबलसहिताः षट् , त्रीन्द्रियाणां घ्राणेन्द्रिययुताः सप्त, चतुरिन्द्रियाणां चक्षुरिन्द्रियसमेता अष्टौं, असंज्ञिनः पञ्चेन्द्रियरिश्चः श्रोत्रेन्द्रियान्विता नव, क्वचिद ज्ञिान मनुष्येऽपि नवोच्यन्ते क्वचिदष्टावपि नच तत्सम्यगवसीयते लब्ध्यपर्याप्तकस्य असंज्ञिमनुष्यस्योच्छवासभाषानुपपत्तेः, संझिनां च मनोयोगवता मनोबलहिता दशेति] ॥ धम्माधम्मागासा, तियतियभेया तहेव अध्धा य । खंधा देसपएसा, परमाणु अजीव चउदसहा ॥४॥ ८॥ ___ (प्रा० अ०) धम्मा० धारयति गतिपरिणतान् जीवपुद्गलांस्तत्स्वभावत्वे इति धर्मः । अस्तयः प्रदेशास्तेषां कायः सदाताऽस्तिकायः, धर्मश्चासावस्तिकायश्च धर्मास्तिकायः, तद्विपरीतोऽधर्मास्तिकायः, आकाशास्तिकायः प्रतीतः, एते प्रयोऽपि त्रित्रिभेदाः। यथा धर्मास्तिकायो धर्मास्तिकायदेशो धर्मास्तिकायप्रदेश इति । सकलदेशप्रदेशानुगतसमानपरिणामवत् द्रव्यं धर्मास्तिकायः । तस्यैव देशो बुद्धिकल्पितो यादिप्रदेशात्मको भागो धर्मास्तिकायदेशः । तस्यैव प्रदेशो निर्विभागभागो धर्मास्तिकायप्रदेशः। ते चासङ्ख्येयाः लोकाकाशप्रमाणत्वात् तेषां, एवं अधर्मास्तिकायाकाशास्ति