________________
॥ अव० वृत्त्यादिसमेतं नवतत्त्वप्रकरणम् ॥ (७) का-मत्कोटक-गर्दभक-गोकीटक-धान्यकीटक-कुथुकप्रमुखा--ज्ञातव्याः। तथा चतुरिंद्रियाः चत्वारि शरीररसनाघ्राणचक्षुर्लक्षणानि, इंद्रियाणि येषां ते चतुरिंद्रियाः। मक्षिका-भ्रमर-दंश-मशककंसारिका-शलभ-पग-वृश्चिकप्रमुखा ज्ञातव्याः। तथा पंचेद्रियाः पंच शरीर-रसना-घ्राण-चक्षु.-कर्णलक्षणानि इंद्रियाणि येषां ते पंचेंद्रियाः। ते च द्विधा संज्ञिनः असज्ञिनश्च । तत्र असंज्ञिनः संमू: छिमाः खंजन-ददुर-मत्स्य-सर्पप्रमुखा. वांतपित्तश्लेष्मशुक्रमूत्ररुधि: रादिप्रभवो वश्च मनोरहिता ज्ञेयाः । संज्ञिनः पुनर्गर्भजाः ते चे तिर्यंचः जलचराः खेचराः स्थलचरास्तथा मनुष्या देवा नारकाः सर्वेप्येते संझिनो मन:संयुक्ताः। एवं एकेद्रिया विभेदाः, द्वीद्रियाः, वींद्रियाः, चतुरिंद्रियाः, पंचेंद्रिया द्विभेदा, इत्येते सप्तभेदा जीवाः, सर्वेऽपि पर्याप्ता अपर्याप्ताश्च भवन्ति।ततश्चतुर्दशभेदा जीवाः संजाता: तत्र पर्याप्तास्ते कथ्यन्ते ये स्वकीयपर्याप्तिभिः सर्वाभिः संपूर्णा भवंति। पर्याप्तय. पुनः षड् भवंति । यथा-आहारपर्याप्तिः १, शरीर-- पर्याप्ति: २, इद्रियपर्याप्तिः३, उच्छासनिःश्वासपर्याप्ति ४ भाषापर्याप्तिः ५, मनःपर्यातिः ६। पर्याप्तिशब्देन शक्तिरुच्यते । तत्र एकेद्रियाणां आहार-शरीर-इंद्रिय-उच्छासनिःश्वासलक्षणाश्चतस्रः पर्याप्तयो भवति । द्वींद्रियत्रींद्रियचतुरिंद्रियाणां आहारशरीरेद्रियोच्छासनिःश्वासभाषालक्षणा: पंच पर्याप्तयः स्युः । असंज्ञिपञ्चेन्द्रियाणां मनोरहिताः पूर्वोक्ताः पञ्चपर्याप्तयः स्युः । संज्ञिपचेंद्रियाणां पुनः आहार शरीर इद्रिय उच्छासनिःश्वास-भाषा-मनोलक्षणाः षट्पर्याप्तयः स्युः। एवं येषां जीवानां यावन्मात्र: पर्याप्नयो भवति ते जीवास्तावन्मात्राभिःसर्वाभिः पर्याप्तिभि: संपर्णा. पर्याप्ताः कथ्यते। तद्विपरीता पुन. अपर्याप्ता मन्तव्याः। सूक्ष्मैकेंद्रियपर्याप्ताः सूक्ष्मैकेद्रियापर्याप्ताः व दरेकै द्रियपर्याप्ता बादरैकेंद्रियापर्याप्ताः । एवं द्वित्रिचतु.पंचेंद्रियसंझ्यसंझिनः पर्याप्तापर्याप्ताः स जीवाश्चतुर्दशभेदा ज्ञातव्याः। इति जीततत्त्वं प्ररूपितम् । [नाणं च दंसणं चेव, चरित्तं च तवो तहा। वीरियं उवओगो य, एयं जीवस्स लक्खणं ॥२॥५॥ - [अ०) ज्ञानदर्शनचारित्रतपोवीर्योपयोगलक्षणो जीव इति]