________________
(६ ) ॥ श्रीनषतत्त्वपरिशिष्टानि. न. घ थी ज. ('६ थी १० ) ॥
सद्वीन्द्रियः५ पर्याप्तद्वीन्द्रियः ६ अपर्याप्ततीन्द्रियः ७ पर्याप्ततीन्द्रियः ८ अपर्याप्तचतुरिन्द्रियः९ पर्याप्तचतुरिन्द्रियः१० अपर्याप्तासंज्ञिपञ्चेन्द्रियः ११ पर्याप्तासंज्ञिपञ्चेन्द्रियः १२ अपर्याप्तसंज्ञिपञ्चेन्द्रियः १३ पर्याप्तसं. ज्ञिपञ्चेन्द्रियः १४, एवं चतुर्दश जीवस्थानानि स्युः, पर्याप्तयस्त्विमाः'आहारसरीरिंदिय-पज्जत्ती आणपाणभासमणे। चउपंचपंच छप्पिय, इगविगलासनिसन्नीणं ॥ १॥' कथमेतासां सम्भवः ? उच्यते-यथा जीवा एकं भवं त्यक्त्वा भवान्तरं गत्वा यथायोग्यमाहारादिपर्याप्ती. गुह्णाति, तासु सर्वासु गृहीतासु जीवानां पर्याप्तत्वं, तदसम्पत्तौ चापर्याप्तत्वमिति गाथार्थः॥जीवतत्त्वमुक्तम् । द्वितीयमजीवतत्त्वमाह
(सा० अ०) 'एगविहेति' इह अत्र जिनशासने जीवा एकविधाः, द्विविधाः, त्रिविधाः, चतुर्विधाः, पञ्चविधाः, षड्विधाश्च भवन्ति । कथमित्याह-चेयणेत्यादि-तत्रैकधा यदा विचार्यन्ते तदा चेतनालक्षणलक्षिताः। चेतनाज्ञानं चैतन्यमिति यावत्। तेन युता इत्यर्थः, चैतन्यस्य सर्वजीवेष्वेकरूपत्वात् १॥ द्विधा प्ररूप्यन्ते तदा त्रसेतरभेदतः। त्र. सा द्वीन्द्रियादयः, सेभ्य तरेऽन्ये स्थावराः पृथ्व्यादयः २॥ त्रिधाचिन्त्यन्ते तदा वेदतः स्त्रीपुन्नपुसकवेदभेदात् ३॥ चतुर्धा चिन्त्यते तदामरनरतिर्यग्नरकगतिभेदतः ४॥ पञ्चधा चिन्त्यन्ते तदा करणैः स्पर्शनादीन्द्रियैः ५ ॥ षड्विधाश्चिन्त्यन्ते तदा कायैः पृथिवीकाया. दिभिः षड्भेदैः ६॥ इति जीवानां षविधत्वं दर्शितम् । इत्थं जीवानां भेदानभिधायाथ प्रकारान्तरेण भेदसंख्यामाह-एगिदियेति, अत्र जिनशासने चतुर्दश जीवग्रामाः,चतुर्दश जीवस्थानानि ज्ञातव्यानि । यथा-एक द्रियाः एकं शरीरलक्षणं इंद्रियं येषां ते एकेद्रियाः । ते च द्विधा सूक्ष्मा बादराश्च। तत्र सूक्ष्माः सर्वलोकव्यापिनश्चर्मचक्षुषामदृश्याः । प्रतिनियतस्थानवतिनो बादराः पुनदश्याः। ते च द्वयेऽपि पृथिवीकाय -अप्काय-तेजःकाय-वायुकायवनस्पतिकायरूपा: । तथा द्वींद्रियाः शरीररसनालक्षणे इंद्रिये येषां ते द्रींद्रियाः । शंख-कपर्दक-गंडोल-जलूंका-कृमिप्रतरक प्रमुखाः। तथा त्रींद्रियाः त्रीणि शरीररसनाघ्राणलक्षणानि इंद्रियाणि येषां ते त्रींद्रियाः । पिपीलिका-यूका-मत्कूणोपदेहि