________________
॥ अव० वृत्या दिसमेतं नवतत्वप्रकरणम् ॥ (११) गतिस्थिती न स्यातामित्यनयोः सामान्येनास्तित्वस्थापन, विशेषस्तु गम्भहस्त्यादिभ्यो ज्ञेयः ॥ __(१०) व्याख्या-धर्मास्तिकायः अधर्मास्तिकायः पुद्गलास्ति. काय आकाशास्तिकाय कालः पञ्च पश्चसङ्ख्या मूलपदार्था अजीवा भवन्ति । गाथापूर्वार्द्धार्थः । धर्माधम्मयोः किं लक्षणमिति गाथोत्तरार्द्धनाह-'चलणसहायो धम्मो, थिरसंठाणो अहम्मो य' व्याख्याधर्म धलनस्वभावंगत्यषष्टम्भकखात्, तदभावादलोके पाकशासनप्रेरितमपि वज्रं केशाग्रमात्रमपि न पुर प्रयाति ।अधर्म ध स्थिरसंस्थानो निश्चलस्वभावः स्थित्युपष्टम्भकलात्, यतः पर्वतादीनां स्थैर्य स तत्स्वभाव इति गाथार्थः । आकाशास्तिकायस्वरूपमाह
( सा० अ० ) धर्मास्तिक यः १ अधर्मास्तिकायः २ पुद्गलास्तिकायः ३ नभ आकाशास्तिकायः ४ कालः समयादि. ५ एतानि पञ्च द्रव्याण्यजीवाः प्रोच्यन्ते, षष्ठं जीवद्रव्यमेवं जिनशासन, षड़ द्रव्याणि कथ्यन्ते ६ ॥ अथ क्रमेण धर्मास्तिकायादीनां लक्षणमाह चलणेत्यादि-चलनस्वभावो धर्मासिनकाय:, जीवानां पुद्गलानां च गमनं कुर्वतां यद् द्रव्यं साहाय्यं ददाति तद्धर्मास्तिकायः । यथा मत्स्य नां जलं तथा धर्मास्तिकाय इत्यर्थः । स्थिरस्थ नः पुनरधर्मास्तिकाय:, स्थिरसंस्थान इति किमुच्यते ? यद्रव्यं जीवपुद्गलानां स्थितिं कुर्वतां सान्निध्यं ददाति स अधर्मास्तिकाय इति भावः एतौ धर्माधर्मास्तिकायौ यत्र वर्तेते स लोकाक शश्चतुर्दशरज्जुप्रमाणः, तत: परस्त्वलोकाकाशः । एवं धर्माधर्मास्तिकाययोर्विशेषस्वरूपं प्ररूपितं । अथाकाशपुद्गलयोः स्वरूपमाहअवगाहो आगासं, पुग्गलजीवाण पुग्गला चउहा। . खंधा देसपएसा, परमाणू चेव नायव्वा ॥ ६ ॥१०॥
(प्रा० अ०) अवगाहोऽवकाशः, पुद्गलानां जीवानां च यत्र तदाकाशं, कालपुद्गलयोश्चात्र सुज्ञानत्वाल्लक्षणं नोक, नच्चेदम्-शीता तपवषीदनयत्यहेतुः कालः, वर्णगन्धरसस्पर्शशद्वान्धकारादि लक्षणाश्चपुद्गलाः । ते चतुर्दा, स्कन्धा देशाः प्रदेशाः प माणवश्च ज्ञातव्याः। ननु स्कन्धभेदाः? प्रागेवोक्ता; सत्यं, किन्तु न तत्र पुद्गलभेदत्वेनेति ॥