________________
( ४ ) ॥ श्रीनवतत्वपरिशिष्टानि. नं. घ थी ज. ( ६ थी १० ) ॥
( वृ० ) जीवश्चतुर्दशभेदभिन्नः १४, अजीवश्चतुर्दशधा १४, पुण्यं द्विचत्वारिंशद्भेदं ४२, पापं व्यशीतिभेदं ८२, आश्रवो द्विचत्वारिंशद्भेद: ४२, संवरः सप्तपञ्चाशद्भेद: ५७, निर्जरा द्वादशभेदा १२, धतुर्द्धा ४ मोक्षो नवभेदः ९, क्रमेणैषां नवतस्त्वानां भेदा भवन्ति ॥ अथ जीवभेदश्चतुर्दशधा प्ररूपयन्नाह
(सा० अ० ) अथ नवतत्त्वानां भेदसंख्यां कथयति, 'चउइति'एतेषां नवानां तत्त्वानां क्रमेण एते भेदा ज्ञातव्याः । यथा - चतुर्दश भेदा जीवानां । चतुर्दश भेदा अजीवानां । द्विचत्वारिंशद्भेदाः पुण्यप्रकृतीनां । द्व्यशीतिभेदाः पापप्रकृतीनाम । द्विचत्वारिंशद् भेदा आश्रवद्वाराणां । सप्तपंचाशद्भेदाः संवरस्य । द्वादशभेदा निर्जरायाः । चत्वारो भेदा बंधस्य । नवभेदा मोक्षस्य || एवं नवानां तत्त्वानां भेदसंख्यां निगद्य अथैतेषां भेदानां क्रमेण विवरणं वक्ति
"
[ एगविह दुविह तिविहा, चउविहा पंचछविहा जीवा । चेयण तस इयरेहिं, वे गइ करण काहिं ॥ १ ॥ ] ॥३॥ एगिंदिअसुहुमिअरा, संनिअरपणिदिया य सबितिचउ । अपज्जन्त्ता पज्जत्ता, कमेण चउदस जिअडाणा ॥ ३ ॥ ४ ॥
( प्रा० अ० ) ' एगिं०' एकेन्द्रियाः सूक्ष्मेतराः, सूक्ष्मनामकर्मोदयात् सूक्ष्माः सकललोकव्यापिनो निरतिशयिनामदृश्याः, इतरे बादरकर्मोदयाद्वादराः प्रतिनियतस्थानवर्त्तिनः । तथा संज्ञिनो मनोविज्ञानवन्तः, इतरेऽसंज्ञिनः पञ्चेन्द्रियाः, सद्वित्रिचतुरिन्द्रियाः सप्त । ते सप्तापि पर्याप्ता अपर्याप्ताश्च । एवं क्रमेण जीवनिवासस्थानानि भवन्ति । पर्याप्तयस्तु- "आहार १सरीरिं२ दिय३, पज्जत्ती आणपाण४ भास५ मणे ६ । चउ १ पंच २ पंच ३ छप्पिअ ४, इग १ विगला २ सन्नि ३ सन्नीणं ४ ॥ १ ॥" अजीवभेदानाह
(०) तत्र तावदेकविधा जीवाश्चैतन्यलक्षणत्वात्, द्विविधा जीवाः संसारिणोऽसंसारिणो मुक्ताश्च, त्रिविधा जीवाः पुंस्त्रीनपुंसकभेदाः, चतुर्द्धा जीवाः सुरनरतिर्यग्नैरयिकभेदात् पञ्चविधा