________________
॥ अव० वृत्यादिसमेतं नवतत्त्वप्रकरणम् ॥
( ३ ) निर्जरात व ७ बंधतत्त्वं ८ मोक्षतत्त्वं ९ । तत्त्वमिति कोर्थः ? सतस्त्रं स्वरूपमिति यावत् । तत्र प्रथमं जीवतत्वं । जीवः कीदृग् ?, उच्यते । जीवति दशविधान् प्राणान् धारयतीति जीवः । दशविधप्राणाश्च कीदृशा: ? । “पंचेन्द्रियाणि त्रिविधं बलं च, उच्छ्वासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुक्ता-स्तेषां वियोजीकरणं तु हिंसा ॥ १ ॥ " एवंविधदशप्राणधारको जोवः, तस्य स्वरूपं यद्विचार्यते तजीवतत्त्वम् । द्वितीयं अजीवतस्त्वं जीबादन्योऽजीवः प्राणचेतनाभ्यां रहित इतिभावः, तस्य तत्त्व स्वरूपं यत्तदजीवतत्त्वम् । तृतीयं पुण्यतत्त्वं पुण्यं कीदृशं ?, यत् शुभप्रकृत्यात्मकं कर्म जीवानां सौख्यं ददाति तत्पुण्यं तस्य तत्त्वं पुण्यतत्त्वम् । चतुर्थं पापतवं, पापं किमु`च्यते, यद् अशुभप्रकृत्यात्मकं कर्म जीवानां दुःखं ददाति तत्पापं, तस्य तत्त्वं पाप तत्त्वम् । पंचमं आश्रवतत्त्वं, आश्रवंति आगच्छंति यस्मात्पापानि कर्माणि जीवेषु स आश्रवः, तस्य तत्त्वं स्वरूपं आश्र वतत्त्वम् । षष्ठं संवरतत्त्वं, संव्रियंते निवार्यते समागच्छन्ति कर्माणि यस्मात्स संवरः, तस्य तस्वं स्वरूपं संवरतत्त्वम् । सप्तमं निर्जरातत्वं, नितरां अतिशयेन जीर्यते क्षीयंते कर्माणि यबा सा निर्जरा द्वादशधा तपोरूपा, तस्यास्तत्त्वं स्वरूपं निर्जरातत्त्वम् । अष्टमं बंधतत्त्वं, बद्धधन्ते जीवेन सह संबद्धानि कर्माणि क्रियते येन स बन्धः, तस्य तत्वं स्त्ररूपं बंधतत्त्वम् । नवमं मोक्षतस्त्रं, सकलकर्मणां सर्वथा क्षयलक्षणो मोक्षः, तस्य तत्त्वं स्वरूपं मोक्षतत्त्वम् । चशद्व एवार्थे । एतान्येव नव तत्वानि, तथा सिद्धांतोक्तप्रकारेण, ज्ञेयानि, नतु कुनीर्थिककल्पितानि । कुत्रापि पुण्यपापयोर्बंधे अंतर्भावात् सप्तैव तत्वानि उक्तानि । एवं नवानां तत्त्वानां नामान्युक्तानि । इत्येकगाथा व्याख्याता ॥१॥
चउदस चउदस बाया - लीसा वासीय हुंति बायाला । सत्तावन्नं बारस, चउ नव भेआ कमेणेसिं ॥ २ ॥
( प्रा० अ० ) 'चउ०' जीवाश्चतुर्दश भेदाः, अजीवाः १४ भेदाः, पुण्यं ४२ भेदं पापं ८२ भेदं, आश्रवः ४२ भेदः, संवरः ५७ भेदः, निर्जरा १२ भेदा, बन्धो ४ भेदः, मोक्षः ९ भेदः । एवं २७६ भेदाः । जीवभेदानाह