________________
(५०)॥ श्रीनवतस्वपरिशिष्टानि.नं. घ थी ज.(६ थी १०)॥
चित्त-रविनयरवैयावृत्य३स्वाध्यायध्यानोत्सर्गनामकं । तत्र शायश्चित्तं निजानि पातकानि यथालमानि गुरूणां पुरस्तात् यत् आलोच्यते गुरुप्रदत्तं च तपः समाचर्यते तत् प्रायश्चित्तम् । १, विनयः सप्तप्रकारः ज्ञान*दर्शनरचारित्र३ मनोवचन५कायलोकोपचारिकभेदैर्ज्ञातव्यः । २, वैयावृत्यं
चार्योपाध्यायतपस्विग्लाना दीनां अन्नपानादिसंपादनविश्रामणादिरूपं । ३, स्वाध्यायः वाचना-पृच्छना-परावर्तनाजुप्रेक्षा-धर्मकथालक्षणः पंचभेदः । ४, ध्यानं आतौद्रधर्मशुक्लरूपं । ५, तत्र आतौद्रयोः परिहारः, धर्मशुक्लयोः स्वीकारः, एतौ परिहारस्वीकारौ ध्यानं कथ्यते । उत्सर्गों द्रव्यभावभेदाद द्विधा । तत्र आद्यः चतुर्धा गणश्देहोरपधि३भक्तष्ठत्यागभेदात्१ । भावतः पुनः क्रोधादिपरित्यागो ज्ञातव्यः२६, एवं षट्प्रकारं आभ्यंतरं तप; प्ररूपितं । आभ्यंतरं कस्मात्प्रोच्यते । यतो मोक्षप्राप्तौ अंतरंगकारणमिदं ततः आभ्यंतरं कथ्यते । सप्तमं निरातत्वं व्याख्यातं । अथ अष्टमं बंधतत्त्वं 'प्ररूपयति। 'बंधो इति' बंधः कर्मभिः सह जीवानां संश्लेषः, यथा क्षीरनीरयोः अग्ययःपिंडयोर्वा । स चतुर्धा प्रकृतिस्थित्यरनुभाग३प्रदेशभेदातव्यः । एतानेव चतुरो भेदान् व्याख्यानयति । प्रकृतिः स्वभावः परिणाम इति भावः। स्थितिबंधः कालपरिमाणं । अनुभागो रसः कथ्यते । प्रदेशः पुद्गलपरिमाणरूपः । एते चत्वारोऽपि भेदा मोदकदृष्टांतेन ज्ञातव्याः । यथा कश्चिन्मोदकः तत्तद्रव्यसंयोगनिष्पन्नो वातं पित्तं श्लेष्माणं वा येन स्वरूपेण हंति स स्वभावः कथ्यते । १, यथा पुनः स एव मोदकः अक्षं मासं द्विमासं त्रिमासं चतुर्मासादि यावत् यत्तेनैव रूपेण तिष्ठति सा स्थितिः कथ्यते । २, यथा पुनः स एव मोदकः कचिन्मधुरो भवति कश्चित्पुनः कटुर्भवति कश्चित्तीवो भवति यत् स रसः कथ्यते । ३, यथा पुनः स एव मोदकः कश्चित् अल्पदलपरिमाणनिष्पन्नः कश्चित्पुनः बहुदलनिष्पन्नः कश्चिद् बहुतरदलनिप्पन्नः एवं मोदकेषु पुद्गलपरिमाणं स्यात् स प्रदेशः । ४, एवं कर्मणां बंधोऽपि चतुष्प्रकारो ज्ञातव्यः । तथाहि । कानिचित् ज्ञानावरणीयादीनि कर्माणि ज्ञानं दर्शनं चारित्रं वा ति येन स्वभावेन स 'प्रकृतिबंधः' प्रोच्यते । तान्येव पुनः कर्माणि कानिचित् जघन्यतः