________________
(४८ ) ॥ श्रीनवतश्वपरिशिष्टानि. नं. घ थी ज. (६ थी १० ) ।। भवति । रसः पुनः स्निग्धमधुरादिः तस्यैव कस्यचिदेकगुणोऽन्यस्य निगुणोऽन्यस्य त्रिगुण इत्यादिकः । प्रदेशाश्च कणिक्कादिरूपाः कस्यचिदेकप्रसूतिप्रमाणाः । यावदपरस्य सेतिकाविप्रमाणाः । एवं कस्यचित्कर्मणोऽपि ज्ञानाच्छादनस्वभावा, अपरस्य दर्शनावरणरूपादिका प्रकृतिः । स्थितिः कस्यचित् त्रिंशत्सागरकोटीकोटीरूपा. अपस्स्य सप्ततिरित्यादि । रस एकस्थान द्विस्थानादिरूपः । प्रदेशा अल्पबहुबहुतरबहुतमादिरूपाः ॥ अथ सत्पदादिभिनवभिारैः सि. द्रप्ररूपणामाह-मोक्षे प्रस्तुते सिद्धप्ररूपणायाः कोऽवसर, ? । उच्यते-जीवस्य कृत्स्नकर्मक्षयेण यास्वरूपावस्थानं तन्मोक्ष उच्यते. स च जीवस्यैव धर्मः । धर्मधर्मिणोश्च कश्चिदनन्यत्वात्सिद्धप्ररूपणायां मोक्षप्ररूपणेनि नाप्रस्तुत भिधानम् ॥
(वृ०) द्वादशविधा निर्जरा, तत्र उपवासादिकरणं अनशनं १, कवलादिपरिहारेण उनोंदरिका २, सादिमपरिहारो वृत्ति संक्षेपः ३, विकृत्यादिपरिहाराद्रसत्यागः' ४, अनुपानद्गमनलोचादिकारापणात्कायक्लेशः ५, वर्षाकालादौ कूर्मवदङ्गोपाङ्गसङ्कोचकरणात् संलोनता६, इति षड्विधस्तपः प्रायो बाहुल्येन चित्तं जीवं मनोवा यच्छोधयति,पापं छिनत्तीति वा प्रायश्चित्तं७, गुरुजनवन्दनेन वैयावृत्यादिको विनयः ८, आचार्योपाध्यायतपस्वि शिष्यग्लानकुलगणसङ्घन्साधुसाधर्मिकेभ्यो वस्त्रपात्राद्युपष्टम्भकरणेन वैयावत्यं ९, वाचनापृच्छनानुप्रेक्षाम्नायधर्मोपदेशदानतः स्वाध्यायः १०, आर्तरौद्रपरिहारेण धर्मशुक्लध्यानसेवनेन च ध्यानं ११, गमनागमनादिकायव्यापारपरिहारेण कायोत्सर्गः १२, आन्तरं तपः षड्विधमाभ्यन्तरं तपः । एवंद्वादशभिर्भेदैः कर्मणां निर्जरा घाटोभवतीति प्रथमपादार्थः ॥ निर्जरातत्त्वमुक्त्वाऽटमबन्धतत्वस्वरूपमाह-अटानामपि कर्मणां बन्धः प्रकृतिस्थित्यनुभावप्रदेशैश्चतुर्विकल्पो ज्ञातव्यः। तत्र कर्मणामष्टपश्चाशच्छतप्रमाणाः प्रकृतयः स्युः, तद्यना-ज्ञातावरणे पञ्च ५, दर्शनावरणे ९ नव, वेदनीयविकं २,