________________
॥ अव०. वृश्यादिसमेतं नवतस्वप्रकरणम् ॥ (४७) [( अ०) उत्सर्गस्त्यागः, स च द्विविधः द्रव्यतो भावतच । द्रव्यतचतुर्धा . गणदेहोपध्यतिरिक्ताशुद्धभक्तपानोत्सर्गभेदात् । गण: पूर्वोक्तः, तस्य ज्ञानाचर्थ परगणोपसम्पत्तौ स्यागः,जिनकल्पाद्यर्थ वा । देहः सचित्ताचित्तात्मकः, तत्रानाभोगादेः कारणतो वा गृहीतस्य सचित्तदेहस्य, कलेवरस्य चेतरस्य । अनयनेन स्वदेहस्य वा। उपधेर्वअपात्रादिकस्य । असंनिधिसंचयत्वान्मुनिधर्मस्य दानस्य च साध्यपेक्षयाऽनेकदोषशबलत्वादधिकयोरशुद्धयोरनेषणीयादिदोषयुजोभक्तपानयोश्चेति । भावतत्रिधा कषायाणां भवस्य कर्मणश्चोत्सर्गस्त्यागः । अभ्यन्तरतपोभेदानां विनयादीनां विशेषतः स्वरूपं भगवतीपञ्चविंशशतकषष्ठोद्देशकादवसेयम् ॥] बारसविहं तवो नि-ज्जरा य बंधो अचउविगप्पो य। पयइ ठिइअणुभाग-प्पएसभेएहिं नायबो ॥१७॥ ॥७१॥
(प्रा० अ०)-'बारस'० द्वादशविधं तपोविधान निर्जरा स्यात् । “अणसणमूणा०" १ " पायच्छित्तं विण" । अभ्यन्तरकं मध्यवर्ति तपो भवति, अन्तःकरणव्यापारप्राधान्यादन्यतीथिकानभ्यस्तत्वात् बाह्यद्रव्यानपेक्षत्वाच्च । अथ बन्धभेदानाहबन्धश्चतुर्विकल्पश्चतुष्प्रकारः प्रकृतिस्थितिरसप्रदेशबन्धभेदात् । मिथ्यात्वादिभिर्हेतुभिः कर्मयोग्यवर्गणापुद्गलैरात्मनः क्षीरनीरवद्वन्यय:पिण्डवद्वान्योन्यानुगमाभेदात्मकः सम्बन्धो बन्धः । तत्र स्थितिरसप्रदेशरूपाणां बन्धानां यः समुदाय: स प्रकृतिबन्धः १। अध्यवसायविशेषगृहीतस्य कर्मदलिकस्य यत् स्थितिकालनियमनं स स्थितिबन्धः २ । कर्मपुद्गलानाभेव शुभोऽशुभो वा घात्यघातो वा यो रस. सोऽनुभागवन्धः ३ । कर्मपुद्गलानामेव यद् ग्रहणं स्थितिरसानिरपेक्षदलिकसङ्ख्याप्राधान्येनैव करोति स प्रदेशबन्धः ४, । उक्तं च-"प्रकृति: समुदाय: स्यात् , स्थितिः कालावधारणम् । अनुभागो रसो ज्ञेयः, प्रदेशो दलसंचयः ॥१॥" इदं प्रकृत्यादिस्वरूपं मोदकदृष्टान्तेन भाव्यम् । यथा वातविनाशिद्रव्यनिष्पन्नो मोद...: प्रकृत्या वातमुपशमयति, एवं कफपित्तयोरपि भावना कार्या । एवंस्वभावा प्रकृतिः । स्थितिस्तस्यैव कस्यचिहिनमेकं, अपरस्य सु दिनवयं, एवं कस्यचिन्मासादिकमपि कालं