________________
(४० ) ॥ श्रीमतवपरिशिष्टांनि. नं. घ थी 'ज.(६ थी १० ) ।।
अशरणभावना २, भवभावना ३, एकत्वभावना ४, अन्यत्वभावना ५, अशौचभावना ६, आश्रवभावना ७, संघरभावना ८, निर्जराभावना ९,धर्मभावना १० लोकस्वभावभावना ११, बोधिभावना १२,। -तत्र संसारे सर्वपदार्थानां अनित्यता यत् चिंत्यते सा अनित्यभावना । १, अशरणं देहिनां मरणादिभये संसारे शरण किमपि नास्ति इत्यादिचिंतनं अशरणभावना । २, जीवानां चतुरशी तिलक्षजीवयोनिपरिभ्रमणचिंतनं भवभावना । ३, एकाक्येव 'जीवः उत्पद्यते विपद्यते कर्माण्युपायति भुंक्त चेत्यादि चिंतनं एकत्वभावना । ४, जीवानां देहात् पृथक्के मति पुत्रकल त्रादिधादिपदार्थेभ्योऽ त्यंतभेद एकत्वम , अतः तत्ववृत्त्या कोपि कस्यापि संबंधी नास्ति'-इत्यादि चितनं अन्यत्वभावना । ५, देहस्य सप्तधातुमयस्य नव स्रोतांमि निरंतरं स्रवति लमत्रश्लेष्मादिवस्तुनि बीभत्सानि सहचारीणि संति, अन: शुचित्वं कुतः स्यात् ', इति चिंगनं अशौचभावना । ६,'संसारमध्यस्थितसमस्तजीवानां मिथ्यात्वकषायाविरतिप्रमादातरौद्रध्यानादिहेतुभिः निरंतरं कर्माणि बध्यमानानि संति इतिचिंतनं आश्रवभावना । ७, मिथ्यात्वादीनां बंधहेतुभूतानां संवरणीपायाः सम्यक्त्वादयः तेषां चिंतन संवरभावना । ८, निर्जराभावना कर्मनिर्जराख्या द्विधा सकामा अकामा च । तत्र सकामा माधूनां । अकामा च अज्ञानकष्टजनिता जीवानां । तत्र सकामा द्वादशप्रकारतपोविहितकर्मक्षयरूप।। १, अकामा पुनः तिर्यगादिजीवानां तृषाबुभुक्षाछेदनभेदनमारोबहनाद्यकामकष्टसहने न यः कर्मक्षयः तद्रपा ज्ञातव्या । एवंविधाय। मिर्जगया: चिं. तनं निर्जराभावना । ९. दुस्तरसंसारसागरसमुत्तारणप्रवहणप्रायश्रीजिनप्रणीतश्रीधर्मप्रभावचिंत धर्मभावना । ३०, चतुर्दशरज्ज्वाम कलोकस्य कटिसंस्थापितकरतिर्यप्रसारितपादपुरुषाकारस्य धर्माधम स्तिकायादिषद्रव्यैः परिपूर्णस्य लोकस्य चिंतनं लोकभावना । ११, अनंतानंतकालदुर्लभमनुष्या दसामग्रीयोगेऽपि दु:प्रापं प्रायो बोधिबीजं जीवानां इत्यादि चिंन बोधिभावना । १२, एवं द्वादशभावनाः व्याख्याताः । १०, अथ चारित्राणि प्रंच । चारित्राणि पंच सामायिकरच्छेदोपस्थानीयरपरिहारविशुद्धिक ३सूक्ष्मसंपरायथ्यथाख्यातनामानि । तत्र - सामायिक सर्वसावधव्यापारपरित्यागनिरवद्यव्यापारासेवन रूपं ज्ञातव्यं । १,