________________
॥ अव० .वृत्यादिसमेतं. नवतत्वप्रकरणम् ॥ (३९) चर्यापरीषहः वायुवत् अप्रतिबद्धतया विहारः कार्यः, न पुनः एकत्र वासः।.९, नैषेधिकीपरीषहः श्मशाने शून्यागारे सर्पविले सिंहगुहादिषु कायोत्सर्गस्थैः नानाविधोपसर्गसदभावेऽपि अशिष्टा चेश न कार्या । १०, शय्यापरीषहः उच्चावचासु शय्यासु शीतोष्णकालादौ मनसि उद्वेगो न विधेयः । ११, आक्रोशपरीषहः अज्ञानलोकप्रोक्तवैभाष्यवाक्यश्रवणे कोपो न कार्य: दृढप्रहारिवत् । १२, वधपरीषहः कोपि दुरात्मा साधनां वधं करोति तथापि साधुभिः क्रोधी न विधेयः स्कंदकसूरिशिष्यवत् । १३, याश्चापरीषहः भिक्षावृत्तिकाले परगृहेषु याचने दुःखं मनसि न धार्य । १४, अलाभपरीषहः अंतरायकर्मोदयात् निर्दोषभिक्षालाभाभावेऽपि चित्ते उद्वेगो न कार्यः ढंढणकुमारवत् । १५. रोगपरीषहः उग्ररोगसंभवेपि आध्यानं न कार्य, सम्यक् सह्यं सनत्कुमारराजर्षिवत् । १६, तृणपरीषहः संस्तारकादौ दर्भादितृणव्यापारे देहपीडायामपि दुःखं न चिंत्यं । १७, मलपरीषहः मलस्वेदादि शरीरात् न स्फेटनीयं, किंतु याव जीवं सम्यक सहनीयं । १८, सत्कारपुरस्कारपरीषहः बहुलोकनरेश्वरादिकृतस्तुतिवंदनादेः चित्तोन्मादो न कार्यः, उत्कर्षो मनसि न कार्यः । १९. प्रज्ञापरीषहः बहुज्ञानसंभवेऽपि आत्मीयचित्ते गर्यो न कार्यः । २०, अज्ञानपरीषहः ज्ञानावरणीयकर्मोदयात् पठतामपि पाठो नागच्छति तथापि दुःखं मनसि न कार्य, किंतु कविपाक एव चिंत्यः । २१, सम्यक्त्वपरीषहः जिनशासनविषये देवगुरुधर्मविषये च संदेहो न विधेयः। २२, एवं द्वाविशतिः परीषहा व्याख्याताः । अथ यतिधर्मो दशधादशप्रकारः । क्षमामार्दवार्जवनिलंभितातपःसंयमसत्यशौचाकिचनत्वब्रह्मस्वरूपः । तत्र क्षमा क्रोधजयः, स उपशमेन स्यात् । १, मार्दवं मृदोर्भाव: मार्दवं, अहंकारपरिहारः । २, आर्जवं ऋजोर्भावः, मायात्यागः | ३, निलाभता लोभपरिहारः । ४, तपः बाह्यांतरभेदै दशधा । ५. संयमः प्राणातिपातविरमणरूपः । ६, सत्यं सदभ्यो जीवेभ्यो हितं पथ्यं सत्यं । ७, शौचं सर्वजीवेषु सुखकारि वर्तनं शौचं, अदत्तादानपरिहारः । ८, अ. किंचनत्वं न विद्यते किंचन यस्य सः अकिंचनः अकिंचनस्य भावः अकिंचनत्वं सर्वपरिग्रहत्य गः । ९, ब्रह्म औदारिकवैक्रियसंबंधिमैथुनपरिहारः। १०, अथ भावना द्वादश । अनित्यभावना १,