________________
( ३८ ) ॥ श्रीनवतत्त्वपरिशिष्टानि. नं. घ थी ज. (६ थी १० ) ॥ र्जितः आहारः साधुभिः गृह्यते सा एषणासमितिः । ३, आदाननिक्षेपममिति: आदानं वस्तूनां ग्रहणं निक्षेपो वस्तूनां स्थापनं, तयो: आदाननिक्षेपयो: समितिः, यद् वस्तूनां ग्रहणं मोचनं तत् प्रथमं चक्षुषा निरीक्ष्य ततो रजोहरणादिना प्रमाय॑ विधीयते सा आदाननिक्षेपसमिति: इति भावः। ४, पारिष्ठापनिकासमितिः परिष्ठाप्यते परित्यज्यते सदोषादिवस्तु सा पारिष्ठापनिकासमितिः । यत्र कफमूत्रमलादिनिर्जीवस्थाने यतनया परिष्ठाप्यते सा पारिष्ठापनिकासमितिः । ५, एवं पंच समितयः व्याख्याताः। अथ गुप्तयः तिस्र: मनोगुप्तिः १, वचनगुप्तिः २.. कायगुप्तिः । ३, तत्र मनोगुप्ति: त्रिधा आर्तरौद्रध्यानानुबंधिकल्पनाजालपरिहारः १. धर्मध्यानानुबंधिनी माध्यस्थ्यपरिणतिः .. केवलज्ञानिनो योगनिगेधावस्थायां सकलमनोद्रव्यनिरोधश्च ३, इति मनोगुप्तिः । वचनगुप्तिः द्विधा भूसंज्ञादिपरिहागत् मौनाभिग्रहः । १. वाचना पृच्छनादिषु मुखवस्त्रिकाच्छादितवक्त्रस्य भाषमाणस्यापि वाभियन्त्रणं । २, वचनगुप्तिः सर्वथावचननिरोधनिरवद्यसम्यगवचनभाषणाभ्यां कृत्वा द्विभेदा, भाषासमितिः पुनः सम्यक्वचनप्रवृत्तिरूपतया एकभेदा एव इति वचनगुप्तिभाषासमित्योभैदः । का यगुप्तिः द्विधा उपसर्गादिसावे कायोत्सर्गादचलनं, केवलिनां योगनिरोधावस्थायां सर्वथा शरीरचेष्टापरिहारः वा १. तथा सिद्धांतोक्तविधिना मुनीनां कायव्यापारस्य २ । एवं तिस्री गुप्तयः व्याख्याताः । ३, अथ परीषहाः द्वाविंशतिः । श्रुधापरीषहः निरवद्याहारालाभे क्षुधा सहनीया, न पुनः सावद्याहारग्रहणं कार्य इत्येवंस्वरूपः । १, पिपासापरीषहः तृषा सहनीया. न पुनः गाढतृषापीडितैरपि सच्चित्तजलं पेयं । २, शीतपरीषहः कायोत्सर्गविहारादिकुर्वतां शीतं लगति तत् सहनीयं, अग्निसेवादि न चिंतनीयं । ३, उष्णपरीषहः ग्रीष्मतापाक्रांतैरपि स्नानवायुव्यं. जनवातायनश्रयणादि न विधेयं, आतापनादि कष्टं सहनीयं । ४. दंशमशकपरीषहः कायोत्सर्गादिषु दंशमशककृता विधाताः सहनीयाः। ५, अचेलपरीषहः मानप्रमाणोपेतैर्वस्त्रेमलिनजीर्णशीर्णरपि खेदो मनसि न कार्यः। ६, अरतिपरीषहः अमनोज्ञोपाश्रयाहारादिषु अरतिः न कार्या । ७, स्त्रीपरीषहः .स्त्रीणां मनोहररूपविभूषाविलासवाक्यहावभावादिकं दृष्टा चित्तक्षोभो न कार्यः। ८,