________________
॥अब० वृत्यादिसमेत नवतत्वप्रकरणम् ॥ ( ३७ )
वस्थितलोकचिन्तनालोकभावना १२, जैनतत्वनिश्चयावेगमारो'धिरिति १२ । एवं द्वादश भावना ॥ 'चारित्त'त्ति चारित्राणि पश्च, तत्र त्रसस्थावरंशत्रुमित्रादिषु समभावकरणात्सामायिकम् ?, व्रतपर्यायच्छेदाच्छेदोपस्थापना २, चत्वारस्तपः कर्तारश्चत्वारो वैयात्त्यकार एको वाचनाचार्य इति नवको गणः । तत्र चत्वारो निर्दिष्टं तपः कुर्वन्ति चखारो वैयारयकराः कल्पस्थितस्तथाचाम्लानि यावत् षण्मासाः। तदन्ते वैयावृत्त्यकरास्तपः कुर्वन्ति, सचाचाम्लानि यावत् षण्मासाततः कल्पस्थितस्तपः शेषास्त्वाचाम्लानि। एवमष्टादशमासप्रमितिः परिहारविशुद्धिर्नामचारित्रम् ३, “संज्वलनक्रोधमानमायालोभबन्धविच्छेदेन मूक्ष्मलोभोदये दशमगुंणस्थाने वर्तमानस्य मूक्ष्मसम्परायचारित्रम् ४, क्षीणमोहस्य उपशान्तमोहस्य वा उपशान्तमोहक्षीणमोहसयोग्ययोगिगुणस्थानस्थस्य यथाख्यातचारित्रम् । इति चारित्रपञ्चकम् । एवं पञ्चभिःसमितिभिस्त्रिभिर्गप्तिभिर्दाविंशत्यापरीषहेर्दशधा यतिधर्मेण, द्वादशभिर्भावनाभिः, पञ्चभिश्चारित्रैरेकीकृत्य सप्तपश्चाशद्भेदाः संवरस्येति गाथार्थः ॥ संवरतत्वमुक्त्वा सप्तमनिर्जरातत्त्वस्वरूपं गाथापादेनाह
(सा० अ०) 'समिइ इति'-संवरतत्वस्य सप्तपंचाशत भेदाः । ते च एवं ज्ञातव्याः । यथा समितयः पंच, गुप्तयस्तिस्त्रः, परीषहा द्वाविंशतिः, यतिधर्मो दशभेदः, भावना द्वादशधा, चारित्राणि पंच, एवं क्रमेण समित्यादीनां षण्णां उत्तराईप्रोक्तभेदसंख्यायोजेने सर्वाग्रेण सप्तपंचाशद भेदा ज्ञातव्याः । तत्र समितयः पंच ईर्यासमितिः १, भाषामितिः २, एषणांसमितिः ३. आदाननिक्षेपणासमितिः ४, पारिष्ठापनिकासमितिः ५, । तत्र सम्यक् प्रशस्ताहत्प्रवचन नुसारेण इतिः गमनं चेयासमितिः । ईर्यायाः गमनस्य समितिः ईर्यासमितिः। मार्ग गच्छन् युगप्रमाणभूमौ दसदृष्टिः साधुः समस्तजीवानां रक्षां कुर्वन् याति सा ईर्यासमितिः इतिभावः । १, भाषासमितिः भाषाया निरवद्यत्रचनस्य समिति: भाषासमितिः। २, एषणासमिति: ग्रया द्विचत्वारिंशदोषविव