SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ (३६) ॥ श्रीनवतत्त्वपरिशिष्टानि. नं. घ थी ज. ( ६ थी १० ) ॥ पद्रवस्य सम्यक्सहनेन अरतिपरीषहः ७, स्त्रीरूपादिदर्शनादलोभत्वेन स्त्रीपरीषहः ८, गोचरचर्यायामरसविरसाहारग्रहणान्मनस्यविषादेन गोचरचर्यापरीषहः ९, स्त्रीभिः सहकस्थ्येऽपि चित्ताक्षोभेन निषद्यापरीषहः १०, खरशिलाकाष्टोपरि शयनाच्छय्यापरीषहः ११, दुर्वचनतर्जनसहनेन आक्रोशपरीषहः १२, यन्त्रादिपीडासहनेन वधपरीपहः १३, दातृकुलागमनाप्रार्थितः भिक्षाग्रहणेन याश्चापरीपहः १४, कर्मवशात् गृहस्थगृहे ऽन्नपानादिसामग्र्यां सन्यामपि नदप्राप्तावदीनचित्तवादलाभपरीषहः १५, ज्वरातीसारादिरोगसहनेन रोगपरीषहः १६, तृणकण्टकादिव्यथासहनेन तृणपरीषहः १७, मलसहनेन मलपरीषहः १८, तिरस्कारापमानसहनेन सत्का. ग्पुरस्कारपरीषहः १०, प्रज्ञादिदर्पसहनेन प्रज्ञापरीषहः २०, अ. ध्ययनक्लेशसहनादज्ञानपरीपहा२१,जिनवचनाश्रद्दधानेन सम्यक्त्तपरीपहः २२ । एवं द्वाविंशतिः परीषहाः ॥ 'जइधम्म'त्ति क्षान्त्यादिको दशविधो यतिधर्मः, तत्र सहिष्णुत्वं क्षमा १, निरहङ्कारता माईवम् २, निर्मायित्वमार्जवम् ३, सद्भावः सत्यम ४, अलोभत्वं शौचम् ५, प्राणिदया संयमश्चेन्द्रियनिरोधः ६, इच्छानिरोधम्तपः ७, निर्ममत्वं त्यागः ८, निष्परिग्रहत्वमाकिश्चन्यम ९, अमैथूनत्वं ब्रह्मचर्यम् १०, इति दशविधो यतिधर्मः ॥ ‘भावण 'त्ति पदार्थानां क्षयाविनाशिवमनित्यम् १, त्राणाभावाज्जीवानामशरणम् २. चतुर्दशरज्ज्वात्मके लोकेस प्रदेशो नास्ति यो जीवैमरणेन न स्पृष्ट इति भवः ३, एक एवोत्पद्यते विपद्यते काण्यनुभवति चैकत्वम ४, देहवनबन्धेभ्यो ह्यात्मनो भिन्नत्वचिन्तनमन्यत्वम् ५, सप्तधातु मयदेहस्थाशुचिखचिन्तनादशुचित्वम् ६, मनोवाकाययोगैः शुभाशुभमार्जनमाश्रवः ७, सर्वाश्रवद्वारनिरोधात् संवरः ८, संसारबीजभूतकर्मणां जरणा निर्जरा ९, अहंदाख्यातधर्माश्रवणाद्धम्मः १०, स्थित्युत्पत्तिव्ययात्मकद्रव्यपूरणकटिस्थकरवैशाखस्थान
SR No.002216
Book TitleNavtattva Sahitya Sangraha
Original Sutra AuthorN/A
AuthorUdayvijay
PublisherMansukhbhai Manekbhai
Publication Year1922
Total Pages250
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy