________________
॥अफ
च्यादिसमेत नवतरवप्रकरणम्॥ (६१)
छेदोपस्थापनीयं गर्णाधिपेन प्रदत्तं प्राणातिपातविरमणादिषचेमहाव्रतरूपं । २, परिहारविशुद्धिकं नव साधवो गच्छात्-पृथग भूस्वा अष्टादशमासान् यावत् यत्सिद्धांतप्रोक्तरीत्या तपः कुर्वति तत्परिहारविशुद्धिक ज्ञेयं । ३, सूक्ष्मसंपरायं सूक्ष्मसंपरायाख्यदशमगुणस्थानकप्राप्तानां साधूनां यच्चारित्रं तत् सूक्ष्मसंपरायं । ४, यथाख्यातं सर्वेषु कषायेषु सर्वथा क्षयं प्राप्तेषु साधूनां यञ्चारित्रं तत् यथाख्यातं । ५, एतेषां चारित्राणां मध्ये सांप्रतं प्रथमचारित्रद्वयं विमानमस्ति, शेषाणि त्रीणि चारित्राणि व्युच्छिन्नानि । एवं चारित्रपंचकं व्याख्यातं । एवं समितीनां पंच भेदाः, गुप्तीनां त्रयः, परीषहाणां द्वाविंशतिः, यतिधर्मस्य दश, भावनानां द्वादश, चारित्राणां पंच भेदाः, इति समपंचाशद्भेदाः संवरतत्त्वस्य संजाताः । इति षष्ठं संवरतत्त्वं रक्षेपती व्याख्यातम । अथ सप्तमं निर्जरातत्त्वं व्याख्यानयति । [इरियाभालेसणादाण, उच्चारे समिईमु य । मणगुत्ती वयगुती, कायगुत्ती तहेव य ॥२६॥॥ ४२ ॥ [खुहा पिवासा सीउव्हं, दंसाचेलारइत्थीओ। चरिया निसीहिया सिजा, अकोसवहजायणा॥२७॥४३॥ [अलाभरोगतणफासा, मलसकारपरीसंहा। पण्णा अन्नाण सम्मत्तं, इय बावीस परीसहा ॥२८॥४४॥ [खंतोमहवअजव, मुत्ती तवसंजमे अ बोडब्वे । सच्चं सोयं आधि-चणं च बंभं च जइधम्मो ॥२९॥ ४६॥ [पढममणिच्चम्सरणं, संसारो एगथा य अन्नत्तं । असुइत्तं आसव, संवरो य तह निजरा नवमी॥३०॥]४६ [लोगसहावी बोही, दुल्लहा धम्मस्स साहेगी अरिहा । एयाओ भावणाओ, भावेयवा पयंसेणं ॥३१॥ ॥४७॥ [सामाइयत्थ पढम, छे ओवट्ठावणं भवे बीयं । परिहारविंसुद्धीयं, सुहम तह संपरायं च ॥ ३२ ॥ ॥४८॥