________________
दीपिका टीका : भदन्त ! देवार्य ! मा आम मम निश्रेयसानन्दकृते च भवेत्यन्वय: । भदन्त ! हे सुखरूप ! हे कल्याणरूप ! हे ज्ञानरूप ! परमात्मन् ! “भदि कल्याणे सुख्खे च' इति वचनात् । . देवार्य !- देवैः आर्यत्वेनाभिहितः, मा-मां प्रति, आम-आगच्छ मम हृदये वस इति भावः, ममअस्मद्शब्दस्य षष्ठ्येकवचनम्, निश्रेयसानन्दकृतेमोक्षानन्दकृते निश्रेयसं मोक्षः, तस्यानन्दो निश्रेयसानन्द, तत् कृते तदर्थमित्यर्थः, भव-भवतात्, कीदृशो देवार्य ? अभव: भवरहित: । आभवावतार ? आ-ईषत् भवावतार ? शिवावतारस्वरूप ! कदा शिवावतारस्वरूपेत्याह-अहितेअहितकारिणि कामे पिहिते, शिवपक्षे भस्मीकृते, भगवत्पक्षे दूरीकृते इत्यर्थः, अहितेहिते शिवपक्षे सर्पसहितत्वात् सर्पसमुदायेप्सिते, भगवत्पक्षे अहिते अहितकारिण्यपि जने हिते. हितकारके सति “हिते' इत्यस्य अत्रापि योजनात्, हिते-अनुकूले कृतेऽकृते वा । पुन: कीदृश: ? हिते कृतेऽकृते-केनापि हिते कृतेऽकृते वा, अममममत्वरहित, रागरहित, उपलक्षणत्वात् द्वेषरहितेत्यपि
६3 श्री वर्धमान जिनस्तोत्रम्