SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ भास्वत इव सूर्यस्य इव प्रभावो यस्य तं तथा, शेषन्तु प्राग्वत्, तथा च निजगुरुं भक्त्या नमस्कृत्य “श्रीवीरं स्तुवे” इति द्वितीयपद्यस्थस्यात्रान्वय: । . इति प्रथमद्वितीयपद्ययोरन्वयः । - अत्रालंकारबाहुल्येऽपि गुरुं गुरुं गुरुमित्यादिना यमकालंकारस्य मुख्यता ज्ञेया । यमकारलंकारस्य लक्षणमाह “सत्यर्थे पृथगाया:, स्वरव्यञ्जनसंहते ।। क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते” ॥ ८ ॥ इति साहित्यदर्पणे दशमपरिच्छेदे कथितम् ।। प्रथमश्लोके त्रयः पादा इन्द्रवंशावृत्तस्य, चतुर्थ: पाद: वंशस्थविलवृत्तस्य च, अत्र मिश्रितत्वात्उपजातिवृत्तम्, 'तच्चेन्द्रवंशा प्रथमाक्षरे गुरौ इति ‘इन्द्रवंशा' वृत्तलक्षणम् । ‘वदन्ति वंशस्थिलं' जतौ जरौ इति 'वंशस्थविल वृत्त लक्षणम् । मिश्रणे ‘उपजाति'-त्वमाह- छन्दोमज्जाँ अनन्तरोदीरितलक्ष्मभाजौ, पादौ यदीया 'वुपजातय' स्ताः ॥ इत्थं किलान्यास्वपि मिश्रितासु वदन्ति जातिष्विदमेव नाम ॥ ४३ ॥ ।। पंच स्तोत्राणि ॥ ५६
SR No.002211
Book TitlePanch Stotrani
Original Sutra AuthorN/A
AuthorDharmtilakvijay
PublisherSmrutimandir Prakashan
Publication Year2004
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy