________________ गुरुमित्यस्यान्वयात् महाबृहस्पतिमित्यर्थो भवति, बृहस्पतेरप्यधिकमिति फलिंतोऽर्थः, आधिक्यं च बुद्धिविशेषणेनाहसतां सर्वदयेति, सतां-सत्पुरुषाणाम्, सर्वदया-सर्वाभिलषितदायिकयेत्यर्थः, यद्वा सतां-सद्भूतवस्तुनाम्, सर्वदया उत्पादव्ययध्रौव्यात्मकाखिल-स्वतत्त्वसमर्पिकया / पुनः कीदृश्या बुद्ध्या ? दयादयेति-दयां दत्ते इति दयादा, तया दयादया, सकलप्राणिगणाभयदायिकयेत्यर्थः, यद्वा अदयां हिंसां द्यति. छिनत्तीत्यदयादा, तयाऽदयादयेति / हिंसानिवारिण्येत्यर्थः / पुन: कीदृशम् ? विभया भास्वत् प्रभावं, विभया विशिष्टदेहकान्त्या, भास्वत् प्रभावं-भास्वत इव सूर्यस्य इव प्रभाव: प्रभावो यस्य तं तथा, देहकान्त्या सूर्यादप्यधिकमित्यर्थः / एतदर्थानुवादकं यदुक्तं श्री चतुर्विंशति स्तवे 'आईच्चेसु अहिअं पयासयरा' इति / एतदेवाधिक्यं .. विभाविशेषणतयाऽऽह-अभयाभयेति-अभयेन भयाऽभवेन ऽऽभातीत्यभया भा तया तथा, उग्रतारहितयेत्यर्थः / एतदर्थाऽनुवादकं यदुक्तं शक्रस्तवे 'अभयदयाणं' इति / - पुनः कीदृशम् ? मुनित्सतारं-अत्र मुनिस्नतारमिति - 53 श्री वर्धमान जिनस्तोत्रम्