________________ स्तोत्रस्योपरि दीपिकां च सुलभा श्रीवर्द्धमान प्रभोः // 1 // . 'श्री वीरम्' इत्यस्य 'स्तुवे' इत्यस्य च द्वितीयपद्यस्थस्यात्रान्वयः, तथा च श्रीवीरं भक्त्या नमस्कृत्य स्तुवे इत्यन्वयः, अत्र 'भक्त्या' इत्यनेन मानसिक:, 'नमस्कृत्य' इत्यनेन कायिकः, 'स्तुवे' इत्यनेन वाचिकश्च नमस्कार आवेदितः / श्री वीरम् “विदारयति यत्कर्म, तपसा च विराजते / / तपोवीर्येण युक्तश्च, तस्माद् वीर इति स्मृतः” // 1 // इति योगशास्त्रोक्तं श्रीमहावीरमित्यर्थः, भक्त्याहार्दिकादरेण, नमस्कृत्य-कायप्रणिपातं कृत्वा / .. स्तुवे-स्तुत्यवचनैः प्रशंसां करोमि, कीदृशं वीरम् ? गुरुं-'गृहणाति सद्धर्म कथयतीति गुरुः' भव्यप्राणिगणेभ्यो धर्मोपदेशदायकः, तम्, जगद्गुरुमिति फलितोऽर्थः / एतदनुवादकं पद्यमुक्तं श्रीनन्दीसूत्रे 'जयइ जगजीवजोणीवियाणओ जगगुरु०' इत्यादिः / पुनः कीदृशम् ? गुरुं-महान्तम् / कथं महत्त्वमित्याकाङ्क्षायामाह-बुद्ध्येति, बुद्ध्या-निर्मलप्रतिभया, गुरुंबृहस्पतिसमानम्, अत्रापि डमरुकमणिन्यायेन प्राक्तनस्य ܚܚܚܚܚܚܚܚܚܚܚܚܚܚܚܚܚܚܚܚܚܚܚܚܚܚܚܚܚ // पंच स्तोत्राणि // 52