________________
भविकस्यैव सस्नेहं सरस्वती स्तोत्रपाठकरणात् न तु अभव्यस्य तथा लोकविनोदाय कृतेऽप्यभव्येन पाठे निष्फलस्तत्पाठ: भावनाशून्यत्वात् अतो भव्य एवैतत्पाठकरणाधिकारी, सत्यपि भव्यस्याधिकारे सांसारीकचिन्ताचान्तचित्तविकल: सन् पठेत् तदा यथावस्थितं फलं नाप्नुयात् इत्याह प्रमना: प्रसन्नचेता: सन् प्रहृष्टचित्तो भूत्वा इत्यर्थ: मन:- प्रसन्नता च प्राय: प्रातरेव भवति तदनन्तरं तु स्वस्वव्यापार- विकलत्वान्नो भवतीति प्रात: समयस्य पठनयोग्यतयाऽऽह प्रगे इति प्रगे प्रभातकालबोधकमव्ययम् 'प्रगे प्रात: प्रभाते' इत्यमरः, अनेकगुणान्वितम् अनेके च ये गुणा: प्रसादमाधुर्यादय: काव्यगुणा: ज्ञानानन्दकौशल्यारोग्यनिर्भयत्वादिदातृत्वप्रमुखाश्च लोकगुणास्तैरन्वितम् युक्तम् अनेकगुणान्वितम्, एतद् पुरः स्थितम् इदमेतदोः प्रत्यक्षशक्तत्वात्, स्तवनम् स्तूयतेऽनेनेति स्तवनम् स्तोत्रम्, पठति व्यक्तमुच्चारयति, यत्पदोपस्थापितामाकाक्षां पुरयन्नाह स इति स य: पठति स नर: सहसा अकस्मात् नतु शनैः शनैः मधुरैः माधुर्यगुणशालिभि: मनोहरैः वचनामृतैः वचनं च तदमृतं चेति वचनामृतम् तैः. उक्तिसुधाभिः यथाऽमृतपाने न केषामभाव: (अरुचि:) तथैषां वचनश्रवणे
wimmmmmmmmmmmmmmmmmmmmmmmmmar - ११७ अनुभूतसिद्धसारस्वतस्तव: