SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ पातालात्मकम् तस्य लक्षणया तद्वर्तिजीवजातस्य संजीवनी जीवनदात्री अथवा संजीवनी औषधिविशेष: तस्य इव संजीवनकारिणी यथा संजीवनी मृतप्रायमुपजीवयति तथेयमपि चिच्चैतन्यविरहितान् चैतन्यमर्पयति इति भाव:, भगवती ऐश्वर्यवती यथा कोषे “ऐश्वर्यस्य समग्रस्य वीर्य्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गना” ॥१॥ एतेनान्यस्मै विभवदातृत्वं सूचितम्, विभूतिमन्त एव विभूत्या अन्यान् विभूषयन्ति नतु अकिञ्चनाः स्वयं दरिद्रः कथं परानीश्वरीकर्तुमीश्वरः इति सा जगद्विख्याता पूर्वपरामर्शकस्य तच्छब्दस्य प्रकृतेऽयोगात् 'प्रसिद्धार्थकोऽवसेयोऽत्र तच्छब्दः जगद्विख्यातता चास्याः सुस्पष्टैव पूर्वप्रदर्शितविशेषणात्, सरस्वती तन्नामिका ब्राह्मीदेवी, मां पातु रक्षतु अज्ञानाम्नामवतात् इति तत्त्वम् पूर्ववद्वृत्तम् ||१२|| स्वकृतं सरस्वतीस्तोत्रमर्थवादमुखेनोपसंहरतिस्तवनमेतदनेकगुणान्वितं पठति यो भविकः प्रमनाः प्रगे । स सहसा मधुरैर्वचनामृतैर्नृपगणानपि रञ्जयति स्फुटम् ||१३|| व्याख्या-स्तवनमिति-यः यः कश्चित् भविकः भव्यात्मा; * प्रसिद्धर्थकस्तच्छन्दो यथा 'कलाचसाकान्तिमती कलावतः इत्यादौ । ॥ पंच स्तोत्राणि ॥ ११६
SR No.002211
Book TitlePanch Stotrani
Original Sutra AuthorN/A
AuthorDharmtilakvijay
PublisherSmrutimandir Prakashan
Publication Year2004
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy