________________
मुनयः साधवः इति धीधनमुनयः त एव वणिज: व्यापारिणः तान् तथा बुद्धिबलसाधुवाणिज्यवत: सिद्धिद्वीपम् सिद्धिः मोक्षः स एव द्वीप: शरणागतार्तिनाशकस्थानविशेषस्तं नयन् प्रापयन् । धीवराणां बुद्धिशालिनां महायुं बहुमूल्यं एकादश्यादि-पर्वेन्दुमणिम् आदि: प्रथमे तच्च तत्पर्वधर्माराधनसमय: एकादशी एव आदिपर्व एकादश्यादिपर्य तदेव इन्दुमणिः चन्द्रकान्तमणिः तं तथा एकादशीप्रधानपर्व चन्द्रकान्तमणिम् । सन्यायाम्भ: सञ्चासौ न्याय: सन्न्याय: स एव अम्भः जलं सन्यायाम्भः श्रेष्ठन्यायस्वरूपजलम् चेति समुच्चये अतिदिशन् प्रवृत्तः प्रवर्तते स्म स पूर्वोक्त: स्वप्रतीरे प्रकृष्टं तीरं स्वस्य प्रतीरं स्वप्रतीरं तस्मिंस्तथा निजश्रेष्ठतटे निवासं वसतिं नित्यं सर्वदा प्रवितरतु अर्पयतु । पक्षान्तरे तु सिद्धान्त: आगम: स एव अब्धिप्रवाह: वारिधिस्रोत: कुमतानि दुष्टसिद्धान्ताः तानि इव जनपदास्तांस्तथा प्लावयन् ब्रुडयन् । सत्यपात्रप्रतिष्ठान् सत्यं निच्छिद्रं यत् पात्रं वाहनं तत्र प्रतिष्ठान स्थिति: येषां तांस्तथा धीधनमुनिवणिज: धीधनमुनयः इव सदाचारनिष्ठा: वणिजस्तांस्तथा सिद्धिद्वीपं सिद्धेः द्रव्यसिद्धेः
॥ पंच स्तोत्राणि ॥ ८२