________________
અગિયારસે ગાયા, તે પર્વ સર્વ પ્રાણીઓના શ્રેષ્ઠ સુખ માટે થાઓ.૨ सिद्धान्ताब्धिप्रवाहः कुमतजनपदान् प्लावयन् यः प्रवृत्तः, सिद्धिद्वीपं नयन् धीधनमुनिवणिजः सत्यपात्रप्रतिष्ठान् । एकादश्यादिपर्वेन्दुमणिमतिदिशन् धीवराणां महार्घ्यं, संन्यायाम्भश्च नित्यं प्रवितरतु स न स्वप्रतीरे निवासम् ॥३॥
अन्वयः - यः सिद्धान्ताब्धिप्रवाहः कुमतजनपदान् प्लावयन्ं सत्यपात्रप्रतिष्ठान् धीधनमुनिवणिजः सिद्धिद्वीपं नयन् धीवराणां महार्घ्यं एकादश्यादिपर्वेन्दुमणिम् संन्यायाम्भः च अतिदिशन् प्रवृत्त:, स स्वप्रतीरे निवासं प्रवितरतु । व्याख्या - यः निर्दिश्यमानसिद्धान्ताब्धिप्रवाहः सिद्धान्तः आगम: स एव अब्धिः समुद्रः तस्य प्रवाहः स्रोत: इति सिद्धान्ताब्धिप्रवाहः आगमसमुद्रप्रवाहः कुमतजनपदान् कुमतानि दुष्टसिद्धान्ताः एव जनपदाः देशा: तान् तथा दुष्टसिद्धान्तदेशान् प्लावयन् जलप्रवाहे दूरीकुर्वन् सत्यपात्रप्रतिष्ठान् सत्यस्य अनृतस्य पात्रं भाजनं तत्र प्रतिष्ठा स्थितिः येषां ते सत्यपात्रप्रतिष्ठास्तान् अनृतभाजनस्थितान् । धीधनमुनिवणिजः धीः बुद्धिः एव धनं सम्पतिर्येषां ते धीधनाः । बुद्धिप्रधानाः ते च ते
१ एकादशींस्तुति