________________
निरयावलिका-सूत्रवृत्तिः ]
[१६ यथासुखं देवानुप्रिये ! अत्रार्थे मा प्रतिबन्धं-प्रतिघातरूपं प्रमादं मा कृथाः ।
'आघवणाहि' त्ति आख्यापनाभिश्च सामान्यतः प्रतिपादनः। 'पण्णवणाहि य' त्ति प्रज्ञापनाभिश्च-विशेषतः कथनैः । सण्णवणाहि य' त्ति संज्ञापनाभिश्च संबोधनाभिः 'विण्णवणाहि य' त्ति विज्ञापनाभिश्च -विज्ञप्तिकाभिश्च सप्रणयप्रार्थनैः । चकारा समुच्चयार्थाः ।
'आघवित्तए' त्ति आख्यातुं व प्रज्ञापयितुं वा संज्ञापयितुं वा विज्ञापयितुं वा न शक्नोतीति प्रक्रमः सुभद्रां भार्यां व्रतग्रहणानिषेधयितु 'ताहे' इति तदा 'अकामए चेव' अनिच्छन्नेव सार्थवाहो निष्क्रमणं-व्रतग्रहणोत्सवं अनुमनितवान् (अनुमतवान्) इति ! किंबहुना ? मुंडा भवित्ता अगाराओ अणगारियं पव्वइ त्ति । इत ऊर्व सुगमम् ।
___'जाव पाडियक्कं उवस्सय' ति सुव्रताथिकोपाश्रयात् पृथक् विभिन्नमपाश्रयं प्रतिपद्य विचरतिप्रास्ते । 'अज्जाहि अणोहट्टिय' त्ति यो बलाद्धस्तादी गृहीत्वा प्रवर्तमानं निवारयति सोऽपघट्टिका तदभावादनपघट्टिका, अनिवारिता-निषेधकरहिता, अतएव स्वच्छन्दमतिका। ज्ञानादीनां पार्वे तिष्टतीति पावस्था इत्यादि सुप्रतीतम् ।
'उवत्थाणियं करेइ' त्ति उपस्थानं-प्रत्यासत्तिगमनं तत्र प्रेक्षणककरणाय यदा विधत्ते ।
'दिव्वं देविड्ढ'त्ति देवद्धिः-परिवारादिसंपत्, देवधु ति:-शरीराभरणादीनां दीप्तियोगः, देवानुभाग:-अद्भुत-वैक्रियशरीरादिशक्तियोगः, तदेतत्सर्व दर्शयति-। 'विनयपरिणयमेत्त'ति विज्ञका परिणतमात्रोपभोगेषु मत एव यौवनोद्रममनुप्राप्ता। 'रूवेण व'त्ति रूपम् -आकृतिः यौवनंतारुण्यं लावण्यं चेह स्पृहणीयता चकारात् गुणग्रहः गुणाश्च मृदुत्वौदार्यादयः, एतैरुत्कृष्टा-उत्कर्षवती शेषस्त्रीभ्यः, अत एव उत्कृष्टमनोहरशरीरा चापि भविष्यति । 'विनयपरिणयमित्तं पडिकुविएणं सुक्केणं'ति प्रतिकूजितं-प्रतिभाषितं यत् शुक्ल द्रव्यं तेन कृत्वा प्रभूतमपि वाञ्छितं देयद्रव्यं दत्त्वा प्रभूताभरणादिभूषितं कृत्वाऽनुकूलेन विनयेन प्रियभाषणतया भवद्योग्येयमित्यादिना 'इट्टा' वल्लभा' 'कंता' कमनीयत्वात् 'प्रिया' तदा प्रेमविषयत्वात् 'मणुण्णा' सुंदरत्वात् एवं 'संयमा अणुमया' इत्यादि दृश्यम् । आभरणकरण्डकसमानोपादेयत्वादिना। तैलकेला सौराष्ट्रप्रसिद्धी मृन्मयस्तैलस्य भाजनविशेषः, स च भङ्गभयाल्लोठनभयाच्च सुष्ठु संगोप्यते एवं साऽपि तथोच्यते । 'चेलपेडा इवे'ति वस्त्रमजषेवेत्यर्थः । 'रयणकरंडग' इति इन्द्रनीलादिरत्नाश्रयः सुसंरक्षितः सुसंगोपितश्च क्रियते।
'जयलगं' दारकदारिकादिरूपं प्रजनितवती। पुत्रकै: पुत्रिकाभिश्च वर्षदशकादिप्रमाणतः कुमारकुमारिकादिव्यपदेशभाक्त्वं डिम्भडिम्भिकाश्च लघुतरतया प्रोच्यन्ते । अप्येके केचन 'परंगणेहिं' ति नृत्यद्भिः । 'परक्कममाणेहि ति उल्ललयद्भिः । पक्खोलणएहिं'ति प्रस्खद्भिः । हसद्भिः, रुषद्भिः 'उक्कूवमाणेहिंति बृहच्छब्दैः पूत्कुर्वद्भिः। पुठवड (दुब्बल)त्ति दुर्बला । 'पुष्वरत्ताबरत्तकालसमयंसि' त्ति पूर्वरात्रश्चासावपररात्रश्चेति पूर्वरात्रापररात्रः स एव कालसमयः कालविशेषस्तस्मिन् रात्रे पश्चिमे भाग इत्यर्थः प्रयमेतद्रूपः आध्यात्मिक:-आत्माश्रितः, चिन्तितः स्मरणरूपः प्रार्थित:अभिलाषरूपः मनोविकाररूपः संकल्पो-विकल्पः समुत्पन्नः।
इह ग्रन्थे प्रथमवर्गो दशाध्ययनात्मकः, सिमावलिकास्यनामकः । द्वितीयवर्गों द्रशाध्ययनास्मकः, तत्र च कल्पावतंसिका इत्यास्या मध्ययनानाम् तृतीयोऽपि दशाध्ययनात्मकः, पुष्पिका