________________
२०]
[निरथावलिका सूत्रवृत्ति
शब्दाभिधेयानि च तान्यध्ययनानि, तत्राद्य े चन्द्रज्योतिष्येन्द्रवक्तव्यता १। द्वितीयाध्ययने सूर्यवक्तव्यता २ । तृतीये शुक्रमहाग्रहवक्तव्यता ३ । चतुर्थाध्ययने बहुपुत्रिकादेवी वक्तव्यता ४ । पञ्चमे - ऽध्ययने पूर्णभद्रवक्तव्यता ५ । षष्ठे माणिभद्रदेवक्तव्यता ६ । सप्तमे प्राग्भविकचन्दनानगर्यो दत्तनामकदेवस्य द्विसागरोपमस्थितिकस्य वक्तव्यता ७ । अष्टमे शिवगृहपति (ते) मिथिलावास्तव्यस्य देवत्वेनोत्पन्नस्य द्विसागरोपमस्थितिकस्य वक्तव्यता ८ | नवमे हस्तिनापुरवास्तव्यस्य द्विसागरोपमायुष्कतयोत्पन्नस्य देवस्य बलनामकस्य वक्तव्यता है । दशमाध्ययनेऽणाढियगृहपतेः काकन्दीनगरीवास्तव्यस्य द्विसागरोपमायुष्कतयोत्पन्नस्य देवस्य वक्तव्यता १० । इति तृतीय वर्गाध्ययनानि ।
पुप्फचुला ॥ ४ ॥
चतुर्थ वर्गोऽपि दशाध्ययनात्मक: श्री - ह्रीधृतिकीर्तिबुद्धिलक्ष्मी इलादेवी सुरादेवी रसदेवीगन्धदेवी तिवक्तव्यताप्रतिबद्धाध्ययननामकः । तत्र श्रीदेवी सौधर्संकल्पोत्पन्ना भगवतो महावीरस्य नाट्यविधि दारकविकुर्वणया प्रदश्यं स्वस्थानं जगाम । प्राग्भवे राजगृहे सुदर्शनगृहपतेः प्रियाया भार्याया अङ्गजा भूतानाम्नी अभवत् न केनापि परिणीता । पतितपुतस्तनी जाता । वर ( ग पक्खे ज्जिया) परिवज्जिया' वर पितृप्रखेदिता भर्त्राऽपरिणीताऽभूत् । सुगमं सर्व यावच्चतुर्थं वर्ग समाप्तिः ।
वहिनदसा ॥ ५ ॥
पञ्चमवगं वह्रिदशाभिधाने द्वादशाध्ययनानि प्रज्ञप्तानि निसढे इत्यादीनि । प्रायः सर्वोऽपि सुगमः पञ्चमवर्गः नवरं चिराईए' त्ति चिर:- चिरकाल आदिनिवेशो यस्य तच्चिरादिकम् । महया हिमवंत मलय मंदरम हिंदसारे' इत्यादि दश्यम्, तत्र महाहिमवदादयः पर्वतास्तद्वत्सारः प्रधानो यः । नगर निगमसिट्टि सेणा व इसत्थवाहपभितिओ जिणं भगवंतं वंदइ । तदनु नन्दनवने उद्याने भगवान् समवसृतः ।
'बायालीस भत्ताई' ति दिनानि २१ परिहत्यानशनया । 'निसढे ताओ देवलोगाओ आउक्रुए 'ति आयुर्दलिक निर्जरणेन, 'भवक्रएणं'ति देवभव निबन्धनभूतकर्मणां गत्यादीनां निर्जरणेन, स्थितिक्षयेण - आयु: कर्मणः स्थिते वेदनेन, 'अनंतरं चयं चइत्त'त्ति देवभवसम्बन्धिनं चयं - शरीरं त्यक्त्वा यद्वा च्यवनं कृत्वा क्व यास्यति ? गतोऽपि क्वोत्वस्त्यते ?
'सिज्झिहिइ' सेत्स्यति निष्ठितार्थतया, भोत्स्यते केवलालोकेन, मोक्ष्यते सकल कमर्शः, परिनिर्वास्यति स्वस्थो भविष्यति सकलकर्मकृतविकारविरहितया, तात्पर्यार्थमाह सर्व दु:खानामन्तं करिष्यति ।
इति श्रीचन्द्रसूरिविरचितं निरयावलिकाश्रुतस्कन्धविवरण समाप्तमिति । श्रीरस्तु ॥ ग्रन्थाग्रम् ६०० ।।
भूल सुधार - पृष्ठ दस "आशीर्वचन" युवाचार्य श्री शिव मुनि जी महाराज ने जहां लाईन नं० ५ में द्वितीय के स्थान पर "तृतीय" पढ़ा जाए। द्वितीय उपांङ्ग में राजा श्रेणिक के पोत्रों का वर्णन है इस प्रकार पढ़ा जाए ।