________________
[ निरयावलिका-सत्रवृत्तिः
+
M
भत्तपाणे बहुदासीदासगोमहिसगवेलकप्पभूए बहुजणस्स अपरिभूए. सुगमान्येतानि । नवरं आढ्य.. ऋद्धया परिपूर्णः, दृप्तः-दपवान्, वित्तो ---विख्यातः । भद्रसाथवाहस्य भार्या सुभद्रा सुकुमाला। वंझ' त्ति अपत्य फलापेक्षया निष्फला, 'अवियाउरि' त्ति प्रसवानन्तरमपत्यमरणेनापि फल तो वन्ध्या भवति अत उच्यते - अविया उरि'त्ति अविजननशीलाऽपत्यानाम्, अत एवाह-जानुकूर्प गणामेव माता-जननी जानकपरमाता, एतान्येव शरीराशभतानि तस्याः स्तनो स्पशन्ति नापत्यमित्यथ अथवा जानुकूर्पराण्येवमात्रा परप्राणादिसाहाय्यसमर्थः उत्सङ्गनिवेशनीयो वा परिकरो यस्याः न पुत्रलक्षणः स जानुकूपरमात्रः । इमेयारूवे' ति इहैवं दृश्य "अयमेयारूवे अज्जत्थिए चितए पत्थिए मणोगए संकप्पे समुप्पज्जित्था' तत्राय एतद्रूप: आध्यात्मिक:-प्रात्माश्रितः चिन्तितः-स्मरणरूप: मनोगतो-मनोविकाररूप: संकल्पो-विकल्पः समुत्पन्न: । 'धन्नाओ णं ताओ' इत्यादि धन्याघनमर्हन्ति लप्स्यन्ते वा यास्ता धन्या: इति यासामित्यपेक्षया, अम्बा:-स्त्रियः पुण्या:-पवित्रा: कृतपुण्या:-कृतसुकृताः कृतार्थाः - कृतप्रयोजना: कृतलक्षणा:-सफलीकृतलक्षणा:। सुलद्धे ण तासि अम्मगाणं मणय जम्मजीवियफले' सृलब्धं च तासां मनुजजन्मजीवितफल च। 'जासि' त्ति यासां मन्ये इति वितर्कार्थो निपातः । निजकुक्षिसंभूतानि डिम्मरूपाणीत्यर्थः स्तनदुग्धे लुब्धानि यानि तानि तथा। मधुराः समुल्लापा येषां तानि तथा। मन्मन म्-अव्यक्तमीषल्ललितं प्रजल्पितं येषां तानि तथा । स्तनमूलात् कक्षादेशभागमभिसरन्ति मुग्ध कानि-अव्यक्तविज्ञानानि भवन्ति। पण्हयन्ति-दुग्धं पिबन्ति । पुनरपि कोमलकमलोपमाभ्यां हस्ताभ्यां गृहीत्वा उत्सड़े निवेशितानि सन्ति । ददति समुल्लापकान्, पुनः पुनः मञ्जुलप्रभणितान् मञ्जुलं-मधुरं प्रभणितं-भणितिर्येषु ते तथा तान्, इह सुमधुरानित्यभिधाय यन्मजुलप्रभणितानीत्युक्तं तत्पुनरुक्तमपि न दुष्टं संभ्रमणितत्वादस्येति । 'एत्तो' त्ति विभक्तिपरिणामादेषाम्-उक्तविशेषणवतां डिम्भानां मध्य देकतरमपि-अन्यतरविशेषणमपि डिम्भं न प्राप्ता इत्युपहतमनःसङ्कल्पा भूमिगतदृष्टिका करतलपर्यस्तितमुखी ध्यायति । अथानन्तरं यत्संपन्नं तदाह- तेण कालेणं' मित्यादि।
गृहेषु समुदानं-भिक्षाटनं गृहसमुदान भक्षं, सन्निमित्तमटनम् । साध्वीसंघाटको भद्रसार्थवाहगृहमनुप्रविष्टः । तद्भार्या चेतसि चिन्तितवती (एवं वयासो) यथा-विपुलान्-समृद्धान् भोगान् भोगभोगान्-अतिशयवतः शब्दादीन् उपभुजाना विहरामि-तिष्ठामि केवलं तथापि डिम्भादिकं न प्रजन्ये-न जनितवती अहं, केवलं ता एव स्त्रियो धन्या यासां पुत्रादि संपद्यत इति खेदपरायणा 'हवति' (ऽहं वर्ते)। तत्रार्थे यूयं किमपि जानीध्वे न वेति ? यद्विषये परिज्ञानं संभावयति तदेव विद्यामन्त्रप्रयोगादिकं वक्तुभाह । केवलिप्रज्ञप्तधर्मश्च – “जीवदयसच्चवयणं, परधणपरिवज्जणं सुसीलं च । खंती पंचिंदियनिग्गहो य धम्मस्स मूलाइं । इत्यादिकः ।
'एवमेय'ति एवमेतदिति साध्वीवचने प्रत्या (त्यया) विष्करणम् । एतदेव स्फुटयति'तहमेयं भंते ! तथैवैतद्यथा भगवत्यः प्रतिपादयन्ति यदेता यं वदथ तथै वैतत् । 'अवितहमेयं' ति सत्यमेतदित्यर्थः 'असंदिद्धमेयं ति संदेहवजितमेतत् । एतान्येकार्थान्यत्यादरप्रदर्शनायोक्तानि सत्योऽ. यमर्थो यडू यं वदथ इत्युक्त्वा वदन्ते-वाग्भिः स्तौति, नमस्यति कायेन प्रणमति वंदित्ता नमंसित्ता सावगधम्म पडिवज्जइ देवगुरुधर्मप्रतिपत्ति कुरुते ।