________________
निरयावलिका-सत्रवत्ति
[१७
मज्जणं' ति जलेन बहिःशुद्धि मात्रम् । 'जलकीड' ति देहशुद्धावपि जलेनाभिरतिम् । 'जलाभिसेयं' ति जलक्षालनम् । 'आयन्ते' त्ति जलस्पर्शात् चोक्खे' त्ति अशुचिद्रव्यापगमात् किमुक्तं भवति ? । 'परमसूइभूए' त्ति 'देवपिउकयकज्जे' ति देवानां पितृणां च कृतं कार्य जलाञ्जलिदानं येन स तथा। 'सरएण अरणि महेइ' त्ति शरकेण - निमन्थ काष्ठेन अरणि - निर्मन्थनीयकाष्ठं मथ्नाति-धर्षयति ।
अग्गिस्स दाहिणे इत्यादि सार्धश्लोकः तद्यथा शब्दवर्ज', तत्र च 'सत्तंगाइं समादहे' त्ति सप्तङ्गानि समादधाति-सन्निधापयाति सकथं १ वल्कलं २ स्थानं ३ शय्याभाण्डं ४ कमण्डलुं ५ दण्डदारु तथात्मान मिति । तत्र सकथं-तत्समयप्रसिद्ध उपकरण विशेष: स्थानं ज्योतिःस्थानम पात्र स्थानं वा, शय्याभाण्डं-शय्योपकरणं, कमण्डलु-कुण्डिका दण्डदारु-दण्डकः, आत्मा प्रतीतः । 'चरु साहेइ' त्ति चरु:-भाजनविशेषः तत्र पच्यमानं द्रव्यमपि चरुरेव तं चरु बलि मित्यर्थः साधयतिरन्धयति । 'बलि वईस्सदेवं करेइ' त्ति बलिना वैश्वानरं पूजयतीत्यर्थः । 'अतिहिपूर्य करेइ' त्ति अतिथे:-आगन्तुकस्य पूजां करोतोति 'जाव गहा' कडुच्छ पतं बियभायणं गहाय दिसापोक्खियतावसत्तए पव्वइए प्रजितेऽपि षष्ठादितपःकरणेन दिश: प्रेक्षितत्वादिविधि च कृत्वा पारणादिकमाचरितवान् । इदानीं च इदं मम श्रेयः कर्तु, तदेवाह
'जाव जलंते सूरिए' दृष्टान् आभाषितान् आपृच्छय, बहूनि सत्वशतानि समनुमान्य संभाष्य गृहीतनिजभाण्डोपकरणस्योत्तरदिगभिमुखं गन्तुं मम युज्यते इति संप्रेक्ष्यते चेतसि, 'कट्ठमुद्दाए मुहं बंधइत्ता' यथा काष्ठं काष्ठमयः पुत्तलको न भाषते एवं सोऽपि मौनावलम्बी जातः यद्वा मुखरन्ध्राच्छादकं काष्ठखण्डमुभयपार्श्वच्छिद्रद्वयप्रेषितदवरकान्वितं मुखबन्धनं काष्ठमुद्रा तया मुखं बध्नाति । जलस्थलादीनि सुगमानि, एतेषु स्थानेषु स्खलितस्य प्रतिपतितस्य वा न तत उत्थातु मम कल्पते । महाप्रस्थान पदं ति मरणकालभावि कर्तु ततः प्रस्थित:-कतु मारब्धः। 'पुव्वावरण्हकालसमयंसि' ति पाश्चात्यापराहकालसमयः दिनस्य चतुर्थप्रहरलक्षणः । पुवारत्तावरत्तकालसमयंसि त्ति पूर्वरात्रो-रात्रैः पूर्वभागः, अपररातो-रात्रः पश्चिमभागः तल्लक्षणो यः कालसमय:कालरूपसमय: स तथा तत्र रात्रिमध्याह्न (मध्यारात्रे) इत्यर्थ: । अन्तिक-समीपं, प्रादुर्भूतः । इत ऊर्व सर्व निगदसिद्धं जाव निक्खेवओ त्ति । नवरं विरातिसम्यक्त्वः । अनालोचिताप्रतीकान्तः । शुक्रग्रहदेवतया उत्पन्नः।
बहुपुत्तियाध्ययने 'उक्खेवओ' त्ति उत्क्षेप: प्रारम्भवाक्यं यथा--जइ णं भंते समणेणं सिद्धिगइनामधेयं ठाणं संपाविउकामेणं तच्चवग्गस्स पुफियाणं तइयज्झयणस्स अयम? पन्नत्ते, चउत्थस्स णं अज्झयणस्स पुफियाणं के अट्ठ पण्णते? "
एतन्स 'दिव्वा देविड्ढी पुच्छ' त्ति, किण्हं लद्धा-केन हेतुनोपाजिता ? किण्णा पत्ता-केन हेतुना प्राप्ता उपाजिता सती प्राप्तिमुपगता? किण्णा 'भिसमण्णागय त्ति प्राप्तापि सतो केन हेतुनाऽऽभिमुख्येन सांगत्येन च उपार्जनस्य च पश्चाद्धोग्यतामुपगतेति ?। एवं पृष्टे सत्याह एवं खलु' इत्यादि । वाणारस्यां भद्रनामा सार्थवाहोऽभूत् । 'अड्ढे' इत्यादि अड्ढे दित्ते वित्ते विच्छिण्णविउलभवणसयणासणजाणवाहणाइण्णे बहुधणजाइआययणआओगपओगसंपत्ते विच्छड्डियपउर