SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ [निरयावलिका-सूत्रवृत्ति गृहस्थश्च, वानप्रस्थो यतिस्तथा । इति चत्वारो लोकप्रतोता प्राश्रमा एतेषां च तृतीयाश्रमवतिनो वानप्रस्था: 'होत्ति य' त्ति अग्निहोत्रिका: 'पोत्तिय' त्ति वस्त्रधारिणः, कोत्तिया जन्नई सढ्डई धालई हुबउट्ठा दंतुक्खलिया उम्मज्जगा सम्मज्जगा निम्मज्जगा संपक्खालगा दक्खिणकुलगा उत्तरकुलगा संखधम्मा कुलधम्मा मियलुद्धया हत्थितावसा उद्दडगा दिस।पोक्खिणो वकवासिणो बिलवासिणो जलवासिणो रुक्खमूलिया अंबुभक्खिणो वायुभक्खिणो सेवा भक्खिणो मूलाहारा कंदाहारा तयाहारा पताहारा पुप्फाहारा फलाहारा बीयाहारा परिसडियकंदमूलतयपत्तप्फफलाहारा जलाभिसेयक ढिणगाय आयावणेहिं पंचग्गीयावेहि इंगालसोल्लियं कंदुसोल्लियं । तत्र 'कोत्तिय' ति भूमिशायिनः, 'जन्नई' त्ति यज्ञयाजिनः, 'सड्ढइ' त्ति श्राद्धाः 'घालई' त्ति गृहीतभाण्डा: 'हुबउट्ठ' त्ति हूंडि काश्रमणा:, 'दतुक्खलिय' त्ति फलभोजिन: 'उम्मज्जग' त्ति. उन्मज्जनमात्रेण ये स्नान्ति 'सम्मज्जग' त्ति उन्मज्जनस्यैवासकृत्करणेन ये स्नान्ति 'निम्मज्जग' त्ति स्नानार्थम् ये निमग्ना एवं क्षणं तिष्ठिन्ति, 'संपखालग' त्ति मृत्तकाघर्षणपूर्वकं येऽङ्ग क्षालयन्ति, 'दविखणकुलग' त्ति यर्गङ्गादक्षिण कुल एव वस्तव्यं, 'उत्तरकुलग' ति उक्तविपरीताः, 'सङ्खधम्म' त्ति शङ्खध्मात्वा ये जेमन्ति यद्यन्यः कोऽपि नागच्छति, 'कुलधमग' त्ति ये कुले स्थित्वा शब्दं कृत्वा भुजते, 'मियलुद्धय' त्ति प्रतीता एव, ‘हत्थितावस' त्ति ये हस्तिनं मारयित्वा तेनैव बहुकालं भोजनतो यापयन्ति, 'उदंडग ति ऊर्ध्वकृतदण्डा ये संचरन्ति, दिसापोविखणो' त्ति उदकेन दिशः प्रोक्ष्य ये फलपुष्पादि समुच्चिन्वति, 'वक्कवासिणो' त्ति वल्कलवाससः, विलवासिणी' त्ति व्यक्तम्, पाठान्तरे 'वेलवासिणो' त्ति समुद्रवेलावासिनः 'जलवासिणो' त्ति ये जलनिषण्णा एवासते, शेषाः प्रतीताः नवरं, 'जलाभिसे यकढिणगाय' त्ति ये स्नात्वा न भुञ्जते स्नात्वा स्नात्वा पाण्डुरोभूतगात्रा इति वृद्धाः क्वचित् ‘जलाभिसेयकढिणगायभूय' त्ति दृश्यते तत्र जलाभिषेककठिनगात्रभूताः प्राप्ता ये ते तथा, 'इंगालसोल्लियं ति अङ्गाररिव पक्वम्, 'कंदुसोल्लियं' त्ति कन्दपक्वमिवेति । 'दिसाचक्कवालएणं तवोकम्मेणं' ति एकत्र पारणके पूर्वस्यां दिशि यानि फलादीनि तान्याहृत्य भुङ्क्ते, द्वितीये तु दक्षिणस्यामित्येवं दिकचक्रवालेन तत्र तपःकर्मणि पारणककरण तत्तपःकर्म दिकचक्रवालमुच्यते तेन तप.कर्मणेति। ___ 'वागलवत्थनियत्थे' त्ति वल्कलं-वल्क: तम्येद वाल्कलं तद्वस्त्रं निवसितं येन सा वाल्कलवस्त्रनिव सतः । 'उडए' त्ति उटज:-तापसाश्रमगहम । किढिण' त्ति वंशमयस्तापसभाजनविशेष: ततश्च तयाः सांकायिक-भारोहनयन्त्रं किढिण पांक यिम । 'महाराय' ति लोकपाल: । 'पत्थाणे पत्थियं' प्रस्थाने परलोकसाधनमार्गे प्रस्थितं-प्रवृत्तं फलाद्याहरणार्थ, गमने वा प्रवृत्तम् । सोमिलद्विजऋषिम् । 'दब्भे य'त्ति समूलान् कुसेय' दर्भानेव निमलान । पत्तामोड च' त्ति तरुशाखामो. टितपत्राणि । 'समिहाउ' त्ति, समिधः कष्ठिकाः, 'वेइ वड्ढे ई' त्ति वेदिकां देवार्च स्थानं वधनीबहुकारिका तां प्रयुक्ते इति-वर्धयति-प्रमार्जयतीत्यथः । 'उवलेवणसमज्जणं' (ति) जलेन संमार्जनं वा शोधनम् । 'दब्भकलसहत्थ गए' त्ति दर्भाश्च क नशश्व हस्ते गता यस्य स तया, 'दभ. कलसा हत्थगए त्ति क्वचित्पाठः तत्र दर्भेण सहगतो यः कलशक: स हस्तगतो यस्य स तथा । 'जल
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy