________________
निरयावलिका-सूत्रवृत्तिः ।
माषा: धान्यविशेषः उडद इति लोके रूढः, 'कुलत्थ' त्ति एकत्र कुले निष्ठन्ति इति कुलत्था:, अन्यत्र कुलस्था:-धान्यविशेषः । सरिसवयादिपदप्रश्नश्च छलग्रहणेनोपहासार्थ कृत: इति, 'एगे भवं' ति एको भवान् इत्येकत्वाभ्युपगमे आत्मनः कृते भगवता श्रोत्रादिविज्ञानानमवयवानां चात्मनोऽनेकश उपलब्ध्या एकत्वं दूषयिष्यामिति बुद्ध्या पर्यनुयोगो द्विजेन कृत: यावच्छब्दात् दुवे भवं' ति गृह्यते वो भवान् इति च द्वित्वाभ्युपगमेऽहमे फत्वविशिष्टस्यार्थस्य द्वित्वविरोधेन द्वित्वं दूषयिष्यामीति बुद्ध्या पर्यनुयोगो विहितः अत्र भ वान् स्याद्वादपक्षं निखिलदोषगोचरातिक्रान्तमवलम्ब्योत्तरमदायि (मदात्)- एकोऽप्यहं, कथं ? द्रव्यार्थतया जीवद्रव्यस्यैकत्वात् न तु प्रदेशार्थतया (प्रदेशार्थतया) द्य नेकत्वात्, ममेत्यवादीनामेकत्वोपलंभो न बाधकः, ज्ञानदर्शनार्थतया कदाचित् द्वित्वमपि न विरुद्धवित्यत उक्तं द्वावप्यहं, किं चैकस्यापि स्वभावभेदेनानेकधात्वं दृश्यते, तथा हि–एको हि देवदत्तादिपुरुष एकदैव तत्तदपेक्षया पितृत्वपुत्रत्वभ्रातृत्वमातुलत्वभागिनेयत्वादीननेकान् स्वभावान् लभते।
तहा अक्खए अव्वए निचे अवटिए प्राय'त्ति यथा जीवद्रव्यस्यैकत्वादेकस्तथा प्रदेशार्थतयासंख्येयप्रदेशतामाश्रित्याक्षयः, सर्वथा प्रदेशानां क्षयाभावात् , तथाऽव्ययः क्रियतामपि व्ययत्वाभावात्, असंख्येयप्रदेशता हि न कदाचनाप्यपति । अतो व्यवस्थित्वान्नित्यताऽभ्युपगमेऽपि न कश्चिदोषः, इत्येवं भगवताऽभिहिते तेनापृष्टेऽप्यात्मस्वरूपे तद्बोधार्थ, व्यवच्छिन्नसंशयः संजातसम्यक्त्व: "दुवालसविहं सावगधम्म पडिवज्जित्ता सट्ठाणमुवगओ सोमिलमाहणो।'
.. "असाहुदंसणेणं" ति असाधवः-कुदर्शनिनो भागवततापसादयः, तद्दर्शनेन साधूनां चसुश्रमणा-नामदर्शनेन तत्र तेषां देशान्तरविहरणेनादर्शनतः अत एवोपर्युपासनतस्तदभावात्, अतो मिथ्यात्वपुद्गलास्तस्य प्रवर्धमानतां गताः, सम्यक्त्वपुद्गलाश्चापचीयमानास्त एवैभिः कारण. मिथ्यात्वं गतः। तदुक्तम्- “मइमेया पुवोग्गाहसंसग्गीए य अभिनिवेसेणं । चउहा खलु मिच्छत्तं साहूणंऽदसणेणऽहवा।
अतो अत्र असाहुदंसणेणं इत्युक्तम् । “अज्झत्थिए जाव" त्ति आध्यात्मिकः-आत्मविषयः चिन्ततः स्मरणरूप : प्रार्थित:-लघुमाशंसित: मनोगतो-मनस्येव वर्तते यो न बहिः प्रकाशितः सङ्कल्पोविकल्पः समुत्पन्न:-प्रादुर्भूतः, तमेवाह-एवमित्यादि 'वयाई चिण्णाई' व्रतानि नियमास्ते च शौचसंतोषतप:स्वाध्यायादीनां प्रणिधानानि वेदाध्ययनादि कृत च, ततो ममेदानीं लौकिकधर्मस्थानचरणयारामारोपणं कर्तुं श्रेय: तेन वृक्षारोपणमिति, अत एवाह-'अंबाराम य इत्यादि।
कल्लं पाउप्पभायाए रयणीए जलंते सरिए इत्यादि वाच्यम् । "मित्तनाइनिय गसम्बन्धि परियणं पि य आमंतित्ता विउलेणं असणापाणखाइमसाइमेणं भोयावित्ता समाणित्ता - इति अत्र मित्राणि सुहृदः ज्ञातयः समानजातयः निजका:-पितृव्यादयः संबन्धिन:-श्वसुरपुत्रादयः परिजनोदासीदासादि: तमामंत्र्य विपुलेन भोजनादिना भोजयित्वा सत्कारयित्वा वस्त्रादिभिः संमानयित्वा गुणोत्कीर्तनत: ज्येष्ठपुत्रं कुटुम्बे स्थापयित्वाऽधिपतित्वेम गृहीतलोटकहाहाद्य पकरणाः । 'वाणपत्थ' त्ति वने भवा वानी प्रस्थानं प्रस्था-अवस्थितिः वानी प्रस्था येषां ते वानप्रस्थाः अथवा 'ब्रह्मचारी