________________
१४]
निरयावलिका-सूत्रवृत्ति
गिहनायगो परिच्चइय सव्वं पव्वइओ याओ य पंचसमियो तिगुत्तो अममो अकिंचणो गत्तिदिओ गुत्तबंभयारी इत्येवं यावच्छब्दात् दृश्यम् ।।
___ चउत्थछट्टट्ठमदसम दुवाल समारद्धमासखबणेहि अप्पाणं भावेमाणे बहुइं वासाइं सामनपरित्यागं पाउणइ । 'विराहिय सामन्ने'त्ति श्रामण्यं व्रतं, तद्विराधना चात्र न मूलगुणविषया, कि तत्तरगुणविषया, उत्तरगण'इत्र पिण्डविशुध्ध्यादयः. तत्र कदाचित् द्विचत्वारिंशद्दोषविर्शद्धाहारस्य ग्रहणं न कृतं कारणं विनाऽपि बलग्लानादिकारणेऽशुद्धपि गृह्णन दोषवानिति, पिण्डस्याशुद्धतादी विराधितश्रमणता ईर्यादिसमित्यादिशोधनेऽनादरः कृतः अभिग्रहाश्च गृहीताः, कदाचिद् भग्ना भवन्तीति शण्ठयादिसन्निधिपरिभोगमङ्गक्षालनपादक्षालनादि च कृतवानित्यादिप्रकारेण सम्यगपालने व्रतविराधनेति, सा च नालोचिता गुरुसमीपे इत्यनालोचित।तिचारो मृत्वा कृतानशनोऽपि ज्योतिष्केन्द्र चन्द्ररूपतयोत्पन्न: ।
'निक्खेवओ' त्ति निगमनं, तच्च प्रागुपदर्शितमेव । तच्चे अज्झयणे शुक्रवक्तव्यताऽभी धियते'उक्खेवओ' त्ति उत्क्षेपः-प्रारम्भबाक्यं, यथा-जइ णं भंते ! समणेणं जाव सपत्तेणं दोच्चस्स अज्झयणस्स पुफियाणं अयमठे पन्नत्त; तच्चस्स णं अज्झयणस्स भंते। पुप्फियाणं समणेणं जाव संपत्तेणं के अट्ठे पन्नत्ते ? एवं खलु जंबू ? तेणं कालेणं तेणं समएणं रायगिहे नयरे इत्यादि । 'तहेवागओ' त्ति रायगिहे सामिसमीवे ।
रिउव्वेय जाव' इति ऋग्वेदयजुर्वेदसामवेदाथर्वणवेदानाम् इतिहासपञ्चमानाम् इतिहासः -पुराणं निघण्टुषष्ठानाम् निर्घण्टको नाम कोशः साङ्गोपाङ्गानाम् अङ्गानि-शिक्षादीनि उपाङ्गानि-तदुक्तप्रपञ्चनपराः प्रबन्धाः, सरहस्यानाम्-एदम्पर्ययुक्तानां धारकः-प्रवर्तक: वारक: अशुद्धपाठनिषेधकः पारगः-पारगामि षडङ्गवित्. षष्ठितन्त्रविशारदः षष्ठितन्त्रं-कापिलीयशास्त्रं षडङ्ग वेदकत्वमेव व्यनक्ति, संख्याने-गणितस्कन्धे शिक्षाकल्पे - शिक्षायामक्षरस्वरूपनिरूपके शास्त्रे कल्पे-तथाविधसमाचार प्रतिपादके व्याकरण-शब्दलक्षणे छन्दसि-गद्यपद्यवचनलणनिरुक्तप्रतिपादके ज्योतिषामयने- ज्योतिःशास्त्रे अन्येषु च ब्राह्मणकेषु शास्त्रेषु सुपरिनिष्ठितः सोमिलनामा ब्राह्मणः स च पार्वजिनागमं श्रुत्वा कुतूहलवशाज्जिनसमीपं गतः सन् 'इमाई च णं' इति इमान् एतद्रूपान् 'अट्ठाई' त्ति अर्थान् अर्यमानत्वादधिगम्यानत्यर्थः । 'हेऊई' ति हेतून् अन्तर्वतिन्यास्तदीयज्ञानसंपदो गमकान्, 'पसिणाई ति यात्रायापनीयादीन् प्रश्नान् पृच्छहमानत्वात्, 'कारणाइ' ति कारणानि-विवक्षितार्थ निश्चयजनकानि व्याकरणानि-प्रत्युत्तरतया व्याक्रियमाणत्व देषामिति, 'पुच्छिस्सामि' त्ति प्रश्नयिष्ये इति कृत्वा निर्गतः । 'खंडियविहुणो' त्ति छात्र रहितः, गत्वा च भगवत्समीप एवमवादीत-'जत्ता ते भंते ? जवणिज्जं च ते?' इति प्रश्न: तथा सरिसवया मासा कुलत्था एते भोजएण एगे भवं दुवे भवं इति च एतेषां च यात्रादिपदानामागमिकगम्भीरार्थत्वे । भगवति तदर्थपरिज्ञानमसंभावयताऽपभ्राजनार्थम् प्रश्न: कृत इति 'सरिसवय' त्ति एकत्र सदृशवयम्। अन्यत्र सर्षपा:-सिद्धार्थकाः, 'मास' त्ति एकत्र माषो-दशार्धगुज्जामानः सुवर्णादिविषयः अन्यत्र