________________
निरयावलिका-सूत्रवृत्ति ]
[११
गजः प्रेषितः श्रावस्त्यां नगर्या जितशत्रुसमीपे स्वगृहानिर्गत्य गतः तथाऽयमपि । कोणकनामामा राजा यथा एवं विहल्लकुमारोऽपि । 'चाउग्घंट' ति चतस्रो घण्टाश्चतसृष्वपि दिक्षु अवलम्विता यस्य स चतुर्घण्टो रथः ।
'सुमेहिं वसहीहिं पाय रासेहि' ति प्रातराशः आदित्योदयादावाद्यप्रहरद्वयसमयवर्ती भोजनकाल: निवासश्च-निवसनभूभागः तौ द्वावपि सुखहेतुको न पीडाकारिणी ताम्यां संप्राप्ती नगर्या दृष्टश्चेटककोणिकराज: 'जय विजएणं वद्धावित्ता एव' दूतो यदवादीत्तदर्शयति–एवं खलु सामी' त्यादिना । 'अलोवेमाण' त्ति एवं परंपरागतां प्रीतिमलोपयन्तः । जहा पढम' ति रज्जस्स य जणवयस्स य अद्धं कोणियराया जइ वेहल्लस्स देइ तोऽहं सेयणगं अट्ठारसवंकं च हारं कूणियस्स पच्चप्पिणामि च कुमारं पेसेमि, न अन्नहा ।
तदनु द्वितीयदूतस्य समीपे एनमर्थ श्रुत्वा कोणिक राज 'प्रासुरुत्ते' इत्येतावद्रप (ताकोप) वशसंपन्नः।
यदसो तृतीयदुतप्रेषणे न कारयति मानयति च तदाह-एव वयासी' त्यादिना हस्तिहारसमर्पणकुमारप्रेषणस्वरूपम् यदि न करोषि तदा युद्धसज्जो भवेति दूतप्राह इमेणं कारणेणं ति तुल्यताऽत्र कसंबन्धेन । दूतद्वयं कोणिकराजप्रेषितं निषेधितं, तृतीयदूतस्तु असत्कारितोऽपद्वारेण निष्काषितः । ततो यात्रां सङ् ग्रामयात्रां गृहीतुमुद्यता वयमिति, 'तए णं से कूणिए राया' कालादीन् प्रति भणितवान् । .. तेऽपि च दशापि तद्वयोविनयेन प्रतिशृण्वन्ति । 'एवं वयासि' त्ति एवमवादीत्तान्प्रतिगच्छत यूयं स्वराज्येषु निजनिजसामग्रया संनह्य समागन्तव्यं मम समीपे ।
__ तदनु कूणिकोऽभिषेकाह हस्ति रत्नं निजमनुष्यरूपस्थापयति-प्रगुणीकारयति, प्रतिकल्पयते त्ति पाठे सन्नाहवन्तं कुरुतेत्याज्ञां प्रयच्छति । 'तओ दूय' त्ति त्रयो दूताः कोणिकेन प्रेक्षिताः ।
. 'मंगतिएहि' त्ति हस्तपाशितैः फलकादिभिः, 'तोहिं' ति इषुधिभिः, 'सजीवेहि' ति सप्रत्यञ्च: धनुभिः नृत्यद्भिः कबन्धः वारैश्च हस्तच्युतः भीमं रौद्रम् । शेषं सर्व सुगमम् ॥
॥ इति निरयावलिकाख्योपाङ्गव्याख्या॥