SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ १२ ] [रालिका सूत्रवृत्तिः कप्पवडिंसिया ॥ २ ॥ श्रेणिकनृप्तॄणां कालमहाकालाद्यङ्गजानां क्रमेण व्रतपर्यायाभिधायिका । दोहं च पञ्च इत्यादिगाथा, अस्या अर्थ: - दससु मध्ये द्वयोराद्ययोः कालसुकालसत्कयोः पुत्रयोव्रतपर्यायः पञ्च वर्षाणि, त्रयाणां चत्वारि, त्रयाणां त्रीणि द्वयोर्द्वे द्वे वर्षे व्रतपयायः । तत्राद्यस्य यः पुत्रः पद्मनामा स कामान् परित्यज्य भगवतो महावीरस्य समीपे गृहीतव्रत एकादशाङ्गधारी भूत्वाऽत्युग्रं बहुचतुर्थषष्ठाष्टमादिकं तपःकर्म कृत्वाऽतीव शरीरेण कृशीभूतश्चिन्ता कृतवान् - यावदस्ति मे बलवीर्यादिशक्तिस्तावद्भगवन्तमनुज्ञया मम पादपोपगमन कतु श्रेय इति तथैवासी समनुतिष्ठति, ततोऽसौ पञ्चवर्षव्रतपालनपरो मासिक्या संलेखनया कालगत: सौर्धम देवत्वेनोत्पन्नोद्विसागरोपमस्थिति कस्ततश्च्युत्वा महाविदेह उत्पद्य सेत्स्यते (ति) इति कल्पावतंसंकोत्पन्नस्य प्रथममध्ययनम् । एवं सुकालसत्कमहापद्मदेव्याः पुत्रस्य महापद्मस्यापीयमेव वक्तव्यता स भगवत्समीपे गृहीत - व्रतः पञ्चवर्ष व्रतपर्यायपालनपर एकादशाङ्गधारी चतुर्थषष्ठाष्टमादिबहुतपःकर्म कृत्वा ईशानकल्पे देव: समुत्पन्नो द्विसागरोपमस्थितिकः सोऽपि ततऽच्युतो महाविदेहे सेत्स्यतीति द्वितीयमध्ययनम् । तृतीये महाकालसत्कयुवक्तव्यता, चतुर्थे कृष्णकुमारसत्कपुत्रस्य पञ्चमे सुकृष्ण सत्कपुत्रस्य वक्तव्यता इत्येवं त्रयोऽप्येते वर्षचतुष्टयव्रतपर्यायपरिपालनपरा अभवन् । एवं तृतीयो महाकालाङ्गजश्चतुर्वर्षव्रतपर्यायः सनत्कुमारे उत्कृष्ट स्थितिको देवोभूत्वा सप्तसागरोपमाण्यायुरनुपालय ततऽच्युतो महाविदेहे सेत्स्यतीति तृतीयमध्ययनम् । चतुर्थे कृष्णकुमारात्मजश्चतुर्वर्षव्रतपर्यायः माहेन्द्रकल्पे देवो भूत्वा सप्तसागरोपमाण्यायुरनुपाल्य ततश्च्युतो महाविदेहे सेत्स्यतीति चतुर्थमध्ययनम् । पञ्चमः सुकृष्णसत्कपुत्रो वर्षचतुष्टय व्रतपर्यायं परिपाल्य ब्रह्मलोके पंत्रमकल्पे दश सागरानुत्कृष्टमायुरनुपाल्य ततऽच्युतो महाविदेहे सेत्स्यतीति पञ्चममध्ययनम् । षष्ठाध्ययने महाकृष्ण सत्कपुत्रस्य वक्तव्यता, सप्तमे वीर कृष्ण सत्कपुत्रस्य अष्टमे रामकृष्णसत्क्रपुत्रस्य वक्तव्यता । तत्र त्रयोऽप्येते वर्ष त्रयव्रतपर्यायपरिपालनपरा अभवन् । एवं च मह'कृष्णाङ्गजो वर्षत्रयपर्यायात्लान्तककल्पे षष्ठं उत्पद्य चतुर्दश सागरो माप्युत्कृष्ट स्थिति कमायुरनुपालय ततऽच्युतां महा विदेहे से त्यतीति षष्ठमव्ययनम् । वीरकृष्णाङ्गजः सप्तमः वर्षत्रयव्रतपर्यायं परिपाल्य महाशुक्र सप्तमे कल्पे समुत्पद्य सप्तदशसागराण्यायुरनुपालय ततऽच्युतो विदेहे सेत्स्यनीति सप्तममध्ययनम् । रामकृष्णाङ्गजोऽष्टमो वर्षत्रयं व्रतपर्यायं परिपाल्य सहस्रारेऽष्टमे कल्पेऽष्टादशसागराण्यायुग्नु पाल्य ततऽच्युओ विदेहे सेत्स्यतीति अष्टममध्ययनम् ।
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy