________________
निरयावलिका-सूत्रवृत्तिः ।
स्तथा ताभिः । निपुणनामधेयकुशला यास्तास्तथा ताभिः अत एव विनीताभिः युक्तेति गम्यते, तथा चेटिकाचक्र वालेन अर्थात् स्वदेश संभवेन वृन्देन परिक्षिप्ता या सा तथा। 'उवट्ठाणसाला' उपवेशनमण्डपः । 'दुरुहइ' आरोहति । यत्रैव श्रमणो भगवान् तत्रैवोपागता-संप्राप्ता, तदनु महावीर त्रि.कृत्वो वन्दते -स्तुत्या, नमस्यति-प्रणमति, स्थिता चैव ऊर्ध्वस्थानेन, कृताञ्जलिपुटा अभिसंमुखा सती पर्युपासते । धर्मकथाश्रवणानन्तरं 'त्रिःकृत्वो' वन्दयित्वा (वन्दित्वा) एवमवादीत् - 'ए व खलु भंते' इत्यादि सुगमम् ।
____ अत्र कालीदेव्याः पुत्रः कालनामा कुमारो हस्तितुरगर थपदातिरूपनिजसैन्यपरिवृत: कूणिकराजनियक्तश्चेटकराजेन सह रथमशलं सङ ग्रामयन् सुभटेश्चेट कसत्कर्यदस्य कृतं तदाह-'हयमहियपवरवीर घाइयनिवडियचिंधज्झयपडागे' (हत.) सैन्यस्य हतत्वात्. मथितो मानस्य मन्थनात्, प्रवरवीराः-सुभटा घातिता:--विनाशिता यस्य, तथा निपातिताश्चिह्नध्वजा:-गरुडादिचिह्नयुक्तां: केतवः पताकाश्च यस्य स तथा, ततः पदचतुष्टयस्य कर्मधारयः । अत एव 'निरालोयाओ दिसाओ करेमाणे' त्ति निर्गतालोका दिश: कुर्वन् चेटकराजः (स्य) 'संपक्खं सपडिदिसि' ति सपक्षंसमानपाव समानवामेतरपार्वतया, सप्रतिदिक-समानप्रतिदिक्तयाऽत्यर्थमभिमुख इत्यर्थः अभिमुखागमने हि परस्परस्य समाविव दक्षिणवामपाश्वों भवतः, एवं विदिशावपीति । इत्येवं स कालः चेटकराजस्य रथेन प्रतिरथं 'हव्वं' शीघ्रम् आसन्न-संमुखोनम् आगच्छन्तं दृष्ट्वा चेटकराजः तं प्रति आसुरुत्ते'रु? कुविए चंडिक्किए 'मिसिमिसेमाणे' त्ति, तत्र प्राशु-शोघ्र रुष्ट:-क्रोधेन विमोहितो यः स पाशुरुष्टः, आसुरं वा आसुरसत्कं कोपेन दारुणत्वात् उक्त-भणितं यस्य स आसुरोक्त: रुष्टो-रोषवान् ‘कुविए' त्ति मनसा कोपवान्, चण्डिक्किये-दारुणीभूत: 'मिसिमिसेसाणे' त्ति क्रोधज्वालया ज्वलन् तिवलियं भिउहि निडाले साहटु त्ति त्रिवलिकां भृकुटिं-लोचनविकारविशेषं ललाटे संहृत्य-विधाय धनुः परामृशति, वाण परामृशति, विशाखस्थानेन तिष्ठति, 'आयय कण्णायतं' ति आकर्णान्तं बाणमाकृष्य 'एगाहच्चं' ति एकयैवाहत्या आहननं प्रहारो यत्र जीवितव्यपरोपणे तदेकाहत्यं यथा भवति एवं, कथमित्याह - कुडाहच्च' कुटस्येव-पाषाणमयमहामारणयन्त्रस्येव आहत्या आहननं यत्र तत्कुटाहत्यं । 'भगवतोक्तेयं व्याख्या'।
_ 'अप्फुण्णा समाणी' व्याप्ता सती । शेषं सुगमं यावत् ‘सोल्लेहि य' ति पक्वः 'तलिएहि' ति स्नेहेन पक्वैः, 'भज्जिएहि' भष्ट्र: 'पसन्नं च' द्राक्षादिद्रव्यजन्यो मनःप्रसत्तिहेतु: 'आसाएमाणोओ' त्ति ईषत्स्वादयन्त्यो बहु च त्यजन्त्य इक्षुखण्डादेरिव, 'परिभाएमाणोओ' सर्वमुपभुजानाः (परस्परं ददन्त्यः) 'सुक्क' त्ति शुष्केव शुष्कामा रुधिरक्षयात्, ‘भुक्ख' त्ति भोजनाकरण तो बुभुक्षितेव, 'निम्मंसा' मांमोपचग्राभावत:, 'ओलुग्ग' त्ति अव रुग्णा-भग्नमनोवृत्तिः, 'ओलुग्गस गेरा' भग्नदेहा, निस्तेजागतकान्तिः दीना विमनोवदना, पाण्डकिय मुखी-पाण्डुरीभूतवदना, 'ओमंथिय' त्ति अधोमुखीकृतं, उपहतमनःसङ्कल्पा-गतयुक्तायुक्तविवेचना 'करयल० कट्टु' त्ति 'करयलपरिग्गहियं दसनह सिरसावत्तं मत्थए अंजलि कट्ट सेणियं रायं एवं वयासी, स्पष्टम् । एनमर्थ नाद्रियते--अत्रार्थे प्रादरं न कुरुते, न. परिजानीते-नाभ्युपयच्छति, कृतमौना तिष्ठति । ..