SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ [७ निरयावल का सूत्रवृत्ति ] १. ततश्च कूणिकस्य कालो दण्डनायको निजबलान्वितो युध्यमानस्तावदन्तो यावच्चेटकः, ततस्तेन एकशरनिर्घातेनासौ निपातितः । २. भग्नं च कूणिकबलं । गते च द्वे अपि बले निजानिजमावासस्थानम् । द्वितीयेऽह्नि सुकालो नाम दण्डनायको निजबलान्वितो युद्धमानस्तावद् गतो यावच्चेटकः एवं सोऽप्येकशरेण निपातितः । ३. एवं तृतीयेऽह्नि महाकाल:, सोऽप्येवम् । ४. चतुर्थेऽह्नि कृष्णकुमारस्तथैव, ५. पञ्चमे सुकृष्ण, ६. षष्ठं महाकृष्ण, ७ सप्तमे वीरकृष्णः, ८. अष्टमे रामकृष्णः, ६. नवमे पितृसेनकृष्ण, १० दशमे पितृमहासेनकृष्णः चेटकेनैकैकशरेण निपातितः । एवं दशसु दिवसेषु चेटकेन विनाशिता दशापि कालादयः । एकादशे तु दिवसे चेटकजयार्थ देवताराधनाय कुणिकोऽष्टमभक्तं प्रजग्राह । ततः शक्रचमरावागतौ । ततः शक्रो बभाषे –“चेटक: श्रावक इत्यहं न तं प्रति प्रहरामि, नवरं, भवन्त संरक्षामि" । ततोऽसौ तद्रक्षार्थ वज्रपतिरूपकमभेद्यकवचं कृतवान् । चमरस्तु द्वौ सङ्ग्रामो विकुवितवान् महाशिलाकण्टकं रथमुशलं चेति । तत्र महाशिलेव कण्टको जीवितमेदकत्वान्महाशिला कण्टकः । ततश्च यत्र तृणशूकादिनाऽप्यभिहतस्याश्व हस्त्यादेर्म हा शिला कण्टकेनेवास्याहतस्य वेदना जायते स सङ - ग्रामो महाशिलाकण्टक एवोच्यते । 'रहमुसले' त्ति यत्र रथो मुशलेन युक्तः परिधावन् महाजनक्षयं कृतवान् अतो रथमुशलः । 'ओयाए' त्ति उपयातः - संप्राप्तः । 'कि जइस्सइ' त्ति जयश्लाघां प्राप्स्यति । पराजेष्यते— अभिभविष्यति परसैन्यं परानभिभविष्यति उत नेति कालनामानं पुत्रं जीवन्तं द्रक्ष्याम्यहं न वेत्येवम् उपहतो मनःसंकल्पो युक्तायुक्त विवेचनं यस्याः सा उपहतमनःसंकल्पा । यावत्करणात् "करयलपल्हथियमही अट्टज्झाणोवगया श्रोमंथियवयणनयणक मला" ओमंथियं - अधोमुखीकृतं वदनं च नयनकमले च यथा सा तथा । 'दीणविवन्नवयणा' दीनस्येव विवर्णं वदनं यस्याः सा तथा । 'झियाइ' त्ति आर्तध्यानं ध्यायति, 'मणोमाणसिएणं दुक्खेणं अभिभूया' मनसि जातं मानसिकं मनस्येव यद्वर्तते मानसिकं दुःखं वचनेनाप्रकाशितत्वात् तन्मनो - मानसिकं तेन अबहिर्वर्तिनाऽभिभूता । 'ते णं काले णं' इत्यादिं । 'अयमेयारूवेत्ति प्रयमेतद्रूपो वक्ष्यमाणरूपः 'अज्झत्थिए' त्ति आध्यात्मिकः - आत्मविषयः चिन्तित: - स्मरणरूपः प्रार्थितः लब्धुमाशंसितः, मनोगत: - मनस्येव वर्तते यो न बहिः प्रकाशितः संकल्पो – विकल्पः समुत्पन्नः - प्रादुर्भूतः । तमेवाह - 'एवमि' त्यादि । यावत्करणात् । 2 “पुव्वाणुपुव्विं चरमाणे गामाणुगामं दुइज्जमाने इहमागए इह संपत्ते इह समोसढे, इहेव चंपाए नयरीए पुन्नभद्दे चेइए अहापडिरूवं उग्गहं उग्गिहित्ता संजमेणं तवसा अप्पाण भावेमाणे विहरइ" । 'तं महाफलं खलु' भो देवाणुप्पिया ? 'तहारूवाणं' अरहंताणं, भगवंताणं नाम गोवस्स विसवणयाए, किमंग पुण अभिगमणवंदणन मंसणपडिपुच्छणपज्जुवासणाए ? एगस्स वि आरियस्स मिस्स वयणस्स सवणयाए, किमंग पुणे 'विउलस्स अट्ठस्स गहणयाए' 'गच्छामि णं अहं 'समणं' भगवं महावीरं वंदामि नमसामि सक्कारेमि सम्माणेमि कल्लाणं मंगलं देवयं. वे इयं परुजुवासा मि
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy