________________
निरयावलिका-सूत्रवत्ति
[३
रंससंठाणसंठिए' यावत्करणादिकं दृश्यं 'वज्जररिसहनारायणसंघयणे कणगपुलगनिघसपम्हगोरे' कनकस्य-सवर्णस्य 'पुलग' त्ति यः पुलको-लवः तस्य यो निकष:-कषपट्टरेखाक्षणः तथा 'पम्हेति' पद्मगर्भः तद्वत् यो गौरः सा तथा, वृद्धव्याख्या तु-कन कस्य न लोहादेयः पुलक:-मारो वर्णातिशय: तत्प्रधानो यो निकषो-रेखा तस्य यत् पक्ष्म-बहुलत्व तद्वद्यो गौर: स कनकपुलकनिकषपद्मगौरः । तथा 'उग्गतवे' उग्रम् अप्रधृष्य तपोऽस्येति कृत्वा । 'तत्ततवे' तप्तं-तापितं तपो येन स तप्त तपाः एवं तेन तपस्तप्तं येन कर्माणि संताप्य तेन तपसा स्वात्माऽपि तपोरूप: संतापित इति । तथा दीप्तं तपो यस्य स दीप्ततपाः, दीप्तं तु हुताशन इव ज्वलत्तेजाः कर्मवनदाहकत्वात् । 'उराले' उदार:-प्रधान! 'घोरे' घोर-निघूण परीषहेन्द्रियकषायाख्यानां रिपूणां विनाशे कर्तव्ये । तथा 'घोरव्वए' घोराणिअन्य८ रनुचराणि व्रतानि यस्य स तथा धोरैस्तपोभिस्तपस्वी घोरतपस्वी । “संखित्त विउलतेयलेस्से" संक्षिप्त-शरीरान्तनिलीना विपुला-अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्था तेजोलेश्या विशिष्टतपोजन्यलब्धिविशेष प्रभावा तेजोलेश्या (यस्य सः) एवं गुणविशिष्टो जम्बूस्वामी भगवान्
आर्यसुधर्मणः स्थविरस्य “अदूरसामंते त्ति दूरं-विप्रकर्षः सामन्तं समीपम्, उभयोरभावोऽदूरसामन्तं (तस्मिन्) नातिदूरे नातिसमीपे उचिते देशे स्थित इत्यर्थः । कथं ? उड् ढंजाणू शुद्धपृथिव्यासनवर्जनात् प्रौपग्रहिकनिषद्याभादाच्च उत्कटुकासनः सन्नपदिश्यते ऊर्खे जानुनी यस्य स ऊवंजानुः, अधःशिरो अधोमुख: नोर्ध्व तिर्यग्वा निक्षिप्त-दृष्टि;, किंतु नियतम् भागनियमितदृष्टिरिति भावना।
यावत्करणात् “झाणकोट्ठोवगए" ध्यानमेव कोष्ठो ध्यानकोष्ठस्तमुपगतो ध्यानकोष्ठोपगतः, यथा हि कोष्ठ के धान्यं प्रक्षिप्तमविप्रकीर्ण भवति एवं स भगवान् धर्मध्यानकोष्ठमनुप्रविश्य इन्द्रियमनास्यधिकृत्य संवृतात्मा भवतीति भावः । संवरेण तपसा ध्यानेन आत्मानं भावयन्-वासयन् विहरति -तिष्ठति । 'तए णं से' इत्यादि, तत इत्यानन्तर्ये तस्माद् ध्यानादनन्तरं, णं इति वाक्यालङ्कारे, स आर्यजम्बूनामा उत्तिष्ठतीति संबन्धः, किम्भूतः सन्नित्याह-'जायसड्ढे' इत्यादि जाता प्रवृत्ता श्रद्धा-इच्छा यस्य प्रष्टुः स जातश्रद्धः, यद्वा जाता श्रद्धा इच्छा वक्ष्यमाणवस्तुतत्त्वपरिज्ञानं प्रति यस्य स जातश्रद्धः, तथा जातः संशयोऽस्येति जातसंशयः, तथाजात कुतूहल:-जातोत्सुक्य इत्यर्थः विश्वस्यापि वस्तुव्यतिकरस्याङ्गषु कोऽन्योऽर्थो भगवतऽभिहितो भविष्यति कथं च तमहमवभोत्स्ये ? इति 'उठाए उ?'इ' उत्थानमुत्था-उर्ध्व वर्तनं तया उत्तिष्ठति, उत्थाय च 'मज्जसुहम्मं थेरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ' त्ति त्रिःकृत्वा-त्रीन् वारान् आदक्षिणप्रदक्षिणा-दक्षिणपाश्र्वादारभ्य परिभ्रमणता (पुनः) दक्षिणपार्श्वप्राप्तिः आदक्षिणप्रदक्षिणा तां करोति-विदधाति, कृत्वा च वन्दते-वाचा स्तोति, नमस्यति-कायेन प्रणमति, 'नच्चासन्ने नाइदूरे' उचिते देशे इत्यर्थः। 'सुस्सूसमाणे' श्रोतुमिच्छन् । 'नमंसमाणे' नमस्यन्-प्रणमन् । अभिमुखं 'पंजलिउडे' कृतप्राञ्जलिः। विनयेन उक्तलक्षणेन 'पज्जुवासमाणे' पर्युपासनां विदधान एवं इति वक्ष्यमाणप्रकारं वदासि' ति प्रवादीत् । . भगवता उपाङ्गानां पञ्च वर्गाः प्रज्ञप्ताः, वर्गो ऽध्ययनसमुदायः, तद्यथेत्यादिना पञ्च वर्गान् दर्शयति "निरयावलियाओ कप्पडिसयाओ पुफियाओ फुप्फचलियानो वण्हिदसाओ" त्ति