________________
[निरयावलिका सूत्रवृत्ति
प्रथमवर्गो दशाध्ययनात्मकः प्रज्ञप्तः, अध्ययनदशक मेवाह – 'काले सुकाले' इत्यादिना, मातृनामभिस्तदपत्यानां पुत्राणां नामानि यथा काल्या अयमिति काल: कुमार:, एवं सुकाल्याः महाकाल्या: कृष्ण।याः सुकृष्णायाः महाकृष्णायाः वीर कृष्णायाः रामकृष्णायाः पितृसेनकृष्णाया: महासेनकृष्णायाः अपत्यमित्येवं पुत्रनाम वाच्यम् । इह काल्याअपत्यमित्याद्यर्थे प्रत्ययो नोत्पाद्य काल्यादिशब्देष्वपत्येऽर्थे एयण् प्राप्त्या काल सुकालादिनासिद्धेः । १. एवं च द्यः कालः, २. तदनु सुकाल:, ३. महाकाल: ४. कृष्ण:, ५. सुकृष्णः ६. महाकृष्ण, ७. वीरकृष्णः ८. रामकृष्ण, ६. पितृसे न कृष्ण, १०. महासेनकृष्ण दशमः । इत्येवं दशाध्ययनानि तिरयावलिकानामके प्रथमे वर्गे इति ।
४ ]
'एवं खलु जंबू ते णं काले ण' मित्यादि, 'इहेव' त्ति इहैव देशतः प्रत्यक्षासन्नेन पुनरसङ्ख्ये - यात्वाज्जम्बूद्वीपानाम यत्रेति भाव: । भारते वर्षे क्षेत्रे चम्पा एषा नगरी अभूत् । रिद्धेत्यनेन (रिद्धत्थिमियसमिद्धे' इत्यादि दृश्यं व्याख्या तु प्राग्वत् । तत्रोत्तरपूर्व दिग्भागे पूर्ण भद्रनामकं चैत्यं व्यन्तरायतनम् । कुणिए नाम राये त्ति कूणिकनामा श्रेणिकराजपुत्रो राजा 'होत्थ' त्ति अभवत् । तद्वर्णको महाहिमवंतमहंत मलय मंदरम हिंदसारेत्यादि पसंतडिबडमरं रज्जं पसाहेमाणे विहरइ" इत्येतदन्तः, तत्र महाहिमवानिव महान् शेषराजापेक्षया तथा मलयः - पर्वतविशेषो मन्दरो मेरुः महेन्द्रः शक्रादिदेवराजः, तद्वत्सारः - प्रधानो यः स तथा प्रशान्तानि डिम्बानि विघ्नः डमराणि च-राजकुमारादिकृता विड्वरा यस्मिस्तत्तथा (राज्य) प्रसाधयन् पालयन् विहरति आस्ते स्म । कूणिकदेव्याः पद्मावतीनाम्या वर्णको यथा 'सोमाला जाव विहरई' यावत्करणादेवं दृश्यम् "सुकुमालपाणिपाय अहीण पंचिदियसरीरा" अहीनानि अन्यूनानि लक्षणतः स्वरूपतो वा पञ्चापीन्द्रियाणि यस्मिंस्तत्तथाविधं शरीरं यस्था सा तथा । "लक्खण वंजणगुणोववेया" लक्षणानि स्वस्तिकचक्रादीनि व्यञ्जनानि मषितिलकादीनि तेषां यो गुणः - प्रशस्तता तेन उपपेता युक्ता या सा तथा, उप अप इताइतिशब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनात् उपपेतेति स्यात् । “माणुम्माण पमाणपडिपुन्नसुजायसव्वंग सुंदरंगी" तंत्र मानंजलद्रोणप्रमाणता, कथं ? जलस्यातिभृते कुण्डे पुरुषे निवेशिते यज्जलं निःसरति तत्तर्हि द्रोणमानं भवति, तदा स पुरुषो मानप्राप्त उच्यते, तथा उन्मानम् - अर्धभारप्रमाणता, कथं ? तुलारोपितः पुरुषो यद्यवं भारं तुलयति सदा स तन्मानप्राप्त उच्यते, प्रमाणं तु स्वाङ गुलेनाष्टोत्तरशतोच्छ्रायिता, ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि अन्यूनानि सुजातानि सर्वाणि अङ्गानि शिरःप्रभृतानि यस्मिस्तत् तथाविधं सुन्दरम् अङ्गं शरीरं यस्याः सा तथा । "ससिसोमाकारकंत पियदंसणा ' ' शशिवत्सौम्याकारं कान्तं च- कमनीयम् अतएव प्रियं द्रष्टृणां दर्शनं रूपं यस्याः सा तथा । अतएव सुरूपा स्वरूपतः सा पद्मावती देवी 'कुणिएण सद्धि उरालाई भोग भोगाई भुंजेमाणी विहरइ' भोगभोगान् अतिशयवद्भोगान् ।
'तत्थ णं' इत्यादि । 'सोमालपाणिपाया' इत्यादि पूर्ववद्वाच्यम् । अस्यच्च " कोमुइरयणिवर विमलपडिपुन सोमवयणा" कोमुदीरजनीकरवत् कार्तिकीचन्द्र इव विमलं प्रतिपूर्ण सौम्यं च वदनं यस्याः सा तथा । 'कुंडलुल्लि हियगंडलेहा' कुण्डलाभ्यामुल्लिखिता घृष्टा गण्डलेखा - कपोल