________________
निरयावलिका-सूत्रवृत्ति
आजिनक-चर्म मयं वस्त्रं,- रुतं -प्रतीतं, बूरो-वनस्पतिविशेषः, नवनीतं - म्रक्षणं, तूल म्-अक्तूलं तद्वत् स्पर्शो यस्य स तथा कोऽर्थः ? कोमलस्मशंयुक्त । पासा.ए जाव पडिरूवे'त्ति । ते णं काले णं इत्यादि, 'जाइसंपन्ने' उत्तममातृकपक्षयुक्त इति बोद्धव्यम्, अन्यथा मातृकपक्षसंपन्नत्वं पुरुषमात्रस्यापि स्यात् इति नास्योत्कर्षः कश्चिदुक्तो भवेत्, उत्कर्षाभिधानार्थ चास्य विशेषणललामोपादानं चिकोषितमिति।
एवं “कुलसंपन्ने," नवरं कुलं पैतृकः पक्षः । 'बलसपन्ने" बलं-संहनन विशेष समुत्थः प्राणः । जहा केसि' त्ति केसि (शि) वर्णको वाच्यः, स य "विणयसंपन्ने" लाघवं द्रव्यतोऽल्पोपधित्वं भावतो गौरव त्रयत्यागः एभिः संपन्नो यः स तथा। "ओयंसो" आजो-मानसोऽवष्टम्भः तद्वान ओजस्वी, तेजःशरीरप्रभा तद्वान् तेजस्वी, वयो-वचनं सौभाग्यायु पेतं यस्यास्तीति वचस्वो, “जयंसी' यशस्वीख्यातिमान्, इह विशेषण चतुष्टयेऽपि अनुस्वारः प्राकृततत्वात् । “जियकोहमाणमायालोभे" नवरं क्रोधादिजयः उदय-प्राप्तक्रोधादिविफलीकरणतोऽव सेयः । 'जीवियासामरणभय विप्पमुक्के' जीवितस्यप्राणधारणस्य आशा-वाञ्छा मरणाच्च यद्भयं ताभ्यां विप्रमुक्तो जीविताशामरणभयविप्रमुक्तः तदुभयोपेक्षक इत्यर्थः।
'तवप्पहाणे' तपसा प्रधान:-उत्तम: शेषमुनिजनापेक्षया तपो वा प्रधानं यस्य तःप्रधानः । एवं गुणप्रधानोऽपि, नवरं गुणा:-संयमगुणाः । 'करणचरणप्पहाण' चारित्रप्रधानः । निग्गहप्पहाणे' निग्रहो-अनाचार-प्रवृत्तेनिषेधनम् । 'घोरबभचेरवासी' घोरं च तत् ब्रह्मचर्य च अल्पसत्वैर्दुःखेन यदनुचर्यते तस्मिन् घोरब्रह्मचर्यवासी। 'उच्छृढ सरीरे' 'उच्छुढ़' ति उज्झितमिव उज्झितं शरीरं तत्सत्कारं प्रति नि:स्पृहत्वात् (येन) स तथा। 'चोद्दसपुव्वी चउनाणोपमए' चतुर्ज्ञानोपयोगत:केवलवर्जज्ञानयुक्तः। केसि (शि) गणधरो मतिश्रुतावधिज्ञान त्रयोपेत इति दृश्यम् ।
आचार्यः सुधर्मा पञ्चभिरनगारशतैः साधू-सह संपरिवृतः समन्तात्परिकलितः पूर्वानुा न पश्चानुपूर्व्या चेत्यर्थः क्रमेणेति हृदयं चरन्-संचरन् एतदेवाह-“गामाणुगाम दुइज्जमाणे' त्ति ग्रामान ग्रामश्च विवक्षितग्रामादनन्तरग्रामो ग्रामानुग्रामं तत् द्रवन्- गच्छन् – एकस्माद् ग्रामादनन्तरग्राम मनुल्लङ्घयन्नित्यर्थः, अनेनाप्रतिबद्धं विहारमाह । तत्राप्यौत्सुक्याभावमाह-'सुहंसुहेणं विहरंमाणे' सुखंसुखेन-शरीरखेदाभावेन संयमाऽऽवाधाभावेन च विहरन् ग्रामादिषु वा तिष्ठन् । 'जेणेव' त्ति यस्मिन्नेव देशे राजगृहं नगरं यस्मिन्नेव प्रदेशे गुणशिलकं चैत्यं तस्मिन्नेव प्रदेशे उपागत्य यथाप्रतिरूपं यथोचितं मुनिजनस्य अवग्रहम् आवासम् अवगृह्य - अनुज्ञापनापूर्वकं गृहीत्वा संयमेन तपसा चात्मानं भावयन्विहरति-आस्ते स्म । . परिसा निग्गय'त्ति परिषत्-श्रेणिकराजादिको लोकः निर्गता-निसृता सुधर्मस्वामिवन्दनार्थम् । धर्मश्रवणानन्तरं “जामेव दिसि पाभूआ तामेव दिसि पडिगय" त्ति यस्या: दिशः सकाशात् प्रादुर्भूता-आगतेत्यर्थः तामेव दिशं प्रतिगता इति । तस्मिन् काले तस्मिन् समये आर्षसुधर्मणोऽन्तेवासी आर्यजम्बूनामाऽनगारः काश्यपगोत्रेण 'सत्तुस्सेहे' सप्तहस्तोच्छ्रयः, 'समचउ