________________
श्रीचन्द्रसूरिविरचिता श्री निरयावलिका-सूत्रवृत्तिः
पार्श्वनाथं नमस्कृत्य प्रायोऽन्य ग्रन्थवीक्षिता। .
निरयावलिश्रुतस्कंध-व्याख्या काचित्प्रकाश्यते ॥ तत्र निरयावलिकाख्योपाङ्गग्रन्थस्यार्थतो महावीरनिर्गतवचनमभिधित्सुदराचार्यः सुधर्मस्वामी सूत्रकार: 'ते णं काले णं' इत्यादिग्रन्थं तावदाह-अत्र 'ण' वाक्यालङ्कारार्थः । तस्मिन् कालेऽवसपिण्याश्चतुर्थभागलक्षणे तस्मिन् समये-तद्विशेषरूपे यस्मिन् तन्नगरं राजगृहाख्यं राजा च श्रेणिकाख्यः सुधर्म (श्रीवर्धमान) स्वामी च 'हेत्थ' त्ति अभवत्-आसीदित्यर्थः । अवसर्पिणीत्वात्कालस्य वर्णक ग्रन्थवणितविभूतियुक्तमिदानीं नास्ति । 'रिस्थिमियसमिद्ध' भवनादिभिवृद्धिमुपगतं, भयवजितत्वेन स्थिरं, समृद्धं-धनधान्यादियुक्तं, ततः पदत्रयस्य कर्मधारयः । “पमुइयजणजाणवयं" प्रमुदिता: प्रमोदकारणवस्तूनां सद्भावात् जना नगरवास्तव्यलोकाः जानपदाश्च-जनपदभवास्त त्रायाता: सन्तो यस्मिन् तत्तु प्रमुदितजनजानपदम् । "उत्ताणनयणपेच्छणिज्ज" सौभाग्यातिशयात् उत्तानः अनिमिषैः नयनैः 'लोचनः प्रेक्षणीयं यत्तत्तथा। "पासाइयं" चित्तप्रसत्तिकारि । “दरि. सणिज्ज" यत् पश्यच्चक्षुः श्रमं न गच्छति । 'अभिरूपं' मनोज्ञरूपम् "पडिरूवं" द्रष्टारं द्रष्टारं प्रतिरूपं यस्य तत्तथेति।
तस्मिन् "उत्तरपुरिच्छिमे दिसीभाए गुणसिलए नाम चेइए होत्था" चैत्यं व्यन्तरायतनम् । 'वण्णओ' त्ति चैत्यवर्णको वाच्यः-"चिराईए पुव्वपुरिसपन्नत्ते" चिर:-चिरकालः आदिः-निवेशो यस्य तत् चिरादिकम्, अत एव पूर्वपुरुषः- अतीतनरैः प्रज्ञप्तम्-उपादेयतया ,प्रकाशितं पूर्वपुरुषप्रज्ञप्तम् । 'सच्छत्ते सज्झए सघंटे सपडागे कयवेयहीए" कृतवितदिक-रचितवेदिकं 'लाउल्लोइयमहिए" लाइयंयभूमेश्छगणादिना उपलेपनम्, उल्लोइयं-कुडयमालानां से टिकादिभिः समृष्टीकरणं, ततस्ताभ्यां महितमिव महितं पूजितं यत्तत्तथेति ।
तत्र च गुणशिलकचैत्ये अशोकवरपादप:-समस्ति । "तस्य णं हेढा खंधासन्ने, एत्य ण महं एगे पुढविसिलापट्टए पचत्ते, विखंभायामसूप्पमाणे आईणगरुयबूरनवणीयतूफासे"
निरयालिका-सूत्रवृत्ति
.