SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १४८ [ श्री सिर्षि : • लेम २ अन्ये प्राहुर्यथा सर्व पापं कृत्वा हि मानवाः । मुच्यते क्षणमात्रेण ये स्मरन्ति महेश्वरम् ।। यतः । छित्वा भित्त्वा च भूतानि कृत्वा पापशतानि च । स्मरेदेकं विरूपाक्षं सर्वपापैः प्रमुच्यते ॥ ३ अन्यैस्तु पापशुद्धयर्थं विष्णुध्यानमुदाहृतम् । तद्धयशेषमलक्षालि यतः प्रोक्तमिदं वचः ॥ यतः । अपवित्रः पवित्रो वा सर्वावस्थं गतोऽपि वा । यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥ ४ अन्ये पापाशनं मन्त्रं प्राहुः पापनिबर्हणम् । ५ अन्ये वायुजय प्राज्ञाः प्राहुः मोक्षस्य साधनम् ॥ यथा। ध्यानेनोद्वर्तते यत्तत्पौण्डरीकं हृदि स्थितम् । विघाटितदलं रम्यं मनोलिसुखदं परम् ॥ तद्वारेण निलीयेत मनोलिः परमे पदे । तस्य यो लक्ष्यते नादस्तत्तत्त्वमपरे जगुः ॥ ६ तथान्ये पूरकं प्राहुः कुम्भकं रेचकं तथा । तस्यैव पुण्डरीकस्य पवनं प्रविघाटकम् ॥ ७ अन्ये प्राहुः पुनर्विन्दुं कुन्देन्दुस्फटिकप्रभम् । तिर्यगूर्ध्वमधश्चैव सर्पन्तं ज्ञानकारणम् ॥ ८ अन्ये परां शिखां प्राहुरूर्वाधो लेपितां किल । परमाक्षरमात्रा सा सैवामृतकलोच्यते ॥ नासाने धूलतामध्ये बिन्दुं देवमथापरे । तुषारहारधवलं ध्येयमाहुश्चलस्थिरम् ॥ आग्नेयमण्डले स स्यान्मीलिते रक्तवर्णकः । माहेन्द्रे पीतकः कृष्णो वायव्ये वारुणे सितः ॥ तत्र-पीतः सुन्दरचित्तेन रक्तस्तापेषु चिन्त्यते । कष्णोऽभिचारिके कार्य पुष्टिदो धवलो मतः ॥ ९ अन्येऽप्याहुर्यथा साध्यो नाडीमार्गो मुमुक्षुणा । इडापिङ्गलयो यं नाड्योः सञ्चारकर्म च ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002147
Book TitleSiddharshi
Original Sutra AuthorN/A
AuthorMotichand Girdharlal Kapadia
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages651
LanguageGujarati
ClassificationBook_Gujarati & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy