SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ૧૨૬ अन्यच्च । [ श्री सिद्धर्षि: : उपभिति ग्रंथ : महामोहात्प्रवर्तन्ते तथा सर्वे मदादयः । लीयन्तेऽपि च तत्रैव परमात्मा स वर्त्तते ॥ Jain Education International यज्ज्ञातपरमार्थोऽपि बुध्वा सन्तोषजं सुखम् । इन्द्रियैर्बाध्यते जन्तुर्महामोहोऽत्र कारणम् ॥ अधीत्य सर्वशास्त्राणि नराः पण्डितमानिनः । विषयेषु रताः सोऽयं महामोहो विजृम्भते ॥ जैनेन्द्रमततत्त्वज्ञाः कषायवशवर्तिनः । जायन्ते यन्नरा लोके तन्महामोहशासनम् ॥ अवाप्य मानुषं जन्म लब्ध्वा जैनं च शासनम् । यत्तिष्ठन्ति गृहासक्ता महामोहोऽत्र कारणम् ॥ विश्रब्धं निजभर्त्तारं परित्यज्य कुलस्त्रियः । परेषु यत्प्रवर्तन्ते महामोहस्य तत्फलम् ॥ विलंध्य च महामोहः स्ववीर्येण निराकुलः । कांश्चिद्विडम्बयत्युच्चैर्यतिभावस्थितानपि ॥ मनुष्यलोके पाताले तथा देवालयेष्वपि । विलसत्येष महामोहो गन्धहस्ती यथेच्छ्या ॥ सर्वथा मित्रभावेन गाढं विश्रब्धचेतसाम् । कुर्वन्ति वचनं यच्च महामोहोऽत्र कारणम् ॥ विलंध्य कुलमर्यादां पारदार्येऽपि यन्नराः । वर्त्तन्ते विलसत्येष महामोहमहानृपः ॥ यत एव समुत्पन्ना जाताश्च गुणभाजनम् । प्रतिकूला गुरोस्तस्य वशे येऽस्य नराधमाः ॥ अनार्याणि तथान्यानि यानि कार्याणि कर्हिचित् । चौर्यादीनि विलासेन तेषामेष प्रवर्त्तकः ॥ હજી પણ આગળ એ જ માહરાજાનું વર્ણન ચાલે છે. એમાં જે અનેક દૃષ્ટાન્તા આપ્યાં છે તે લેખકન્તુ વિશાળ જ્ઞાન અને અવલેાકન શક્તિ બતાવે છે. અનેકદેશીય જ્ઞાન અને વિસ્તૃત અનુભવ વગર આટલા જુદી જુદી જાતિના દાખલા આવે નહિ. એમાં For Private & Personal Use Only www.jainelibrary.org
SR No.002147
Book TitleSiddharshi
Original Sutra AuthorN/A
AuthorMotichand Girdharlal Kapadia
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages651
LanguageGujarati
ClassificationBook_Gujarati & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy