________________
૧૬૨
ઉપમિતિ ભવપ્રપંચ કથા. [ પ્રસ્તાવ ૬ “ध्यति ते वैराग्याभिधानो द्वितीयः सहचरः, ततस्ताभ्यामभ्यासवैराग्याभ्यां स" हितेन भवता तत्र राज्ये प्रवेष्टव्यम् ; निरोद्धव्यो महामोहादिसैन्यस्य यनतो " बहिःप्रचारः, निहन्तव्या यथादर्श बलान्निर्गच्छन्तस्तत्सैनिकाः, संधीरणीयं चारि"धर्मसैन्यं, स्थिरीकर्तव्या चित्तवृत्तिराज्यभूमिः, प्रवर्तितव्या मैत्रीमुदिताकरुणो"पेक्षाभिधानाश्चतस्रो महादेव्यः, ततः समग्रसामग्रीकेण सता पूर्वद्वारेण प्रवेष्टव्यं " तत्र राज्ये भवता; तस्य च वामे दिग्भागे महामोहादिसैन्याधारभूतानि सर्वा" ण्यपि ग्रामनगराकरपर्वतनद्यादीनि प्रतिवसन्ति; दक्षिणे तु दिग्भागे चारित्रधर्म"सैन्यस्य सम्बन्धीनि ग्रामादीनि विद्यन्ते; सर्वाधारा पुनस्तेषां चित्तवृत्तिर्महाटवी "वर्तते. तस्याश्च पर्यन्ते पश्चिमे दिग्भागे विद्यते निवृति म नगरी. सा हि तां म" हाटवीमतिलङ्घय व्यवस्थिता. तां च निर्वृतिनगरी प्राप्तस्य ते परिपूर्ण भविष्यत्यस्य " राज्यस्य फलम् , अतस्तद्गमनार्थमेव प्रस्थानं विधेयं. न कर्तव्योऽन्यत्र भवता प्र"तिबन्धः; गन्तव्यं च तस्यां नगर्यामनवरतप्रयाणकैश्चित्तवृत्तिमध्यभागवर्तिनात्य"न्तप्रगुणेन महामोहादिसैन्यास्पृष्टेन चारित्रधर्मादिसैन्यातिवल्लभेन सततमौदासी"न्यनामकेन महाराजमार्गेण. इतश्चादावेवास्ति तावदध्यवसायो नाम महाहूदः, " स यदा पङ्ककलुषो भवति तदा प्रकृत्यैव महामोहादिसैन्यं पोषयति चारित्रधर्मा"नीकं तु पीडयति, यदा पुनः प्रसन्नतया स्वस्थो भवति तदा सोऽध्यवसायमहा" हृदश्चारित्रधर्मसैन्यं तत्स्वभावतया बृहयति महामोहादिबलं तु कर्शयति; अत एव "महामोहादयस्तं स्वोपकारार्थं कलुषयन्ति चारित्रधर्मादयस्त्वात्मोपकारार्थमेव तं "प्रसादयन्ति. भवता तु तस्याध्यवसायमहाहृदस्य प्रसादनार्थ ताश्चतस्रोऽपि महा" देव्यो नियोज्याः, यतो निपुणास्तास्तस्य नितराममलताकरणे. ततः प्रसन्नीभूते " तत्रादिमहाहूदे पुष्टीभूतेषु चारित्रधर्मादिषु स्वाङ्गिकभूपेषु कर्शितेषु महामोहादि" तस्करेषु पुनरग्रतो गन्तव्यम्. ततो भविष्यति तस्मादेव महाहदात् प्रवृत्ताधा"रणा नाम महानदी. सा च स्थिरसुखयानासनोपविष्टेनोच्छ्वासरहितमतिवेगेन "गच्छता परित्यज्य निःशेषमिन्द्रियव्याक्षेपं भवता प्राप्तव्या. तस्याश्च जनयिष्यन्ति " ते महामोहादिशत्रवो विविधविकल्पकल्पकल्लोलकान्; ते भवतात्यन्तावहितेन " भञ्जनीयाः. ततो द्रक्ष्यसि त्वं धर्मध्याननामानमतिप्रगुणं दण्डोलकं, तेन च ग"न्तव्यम्. स च गत्वा पतिष्यति सबीजयोगाभिधाने महति मार्गे. तेन च गच्छ"तस्ते प्रतिक्षणं प्रलयीभविष्यन्ति सर्वेऽपि महामोहादिशत्रवः, समुच्चलयिष्यन्ति " तेषां सम्बन्धीनि समस्तस्थानानि, प्रबलीभविष्यन्ति चारित्रधर्मादयः, धवलता "धारयिष्यति समस्तापि राज्यभूमिः, न भविष्यति च रजस्तमसो मापि. ततो ल“प्स्यसे त्वं शुक्लध्यानाभिधानं दण्डोलकं, तेन च गच्छतो भविष्यति ते विमलके"वलालोकः ततः स दण्डोलको गत्वा मिलिष्यति निर्बीजयोगाख्ये बृहति मार्गे. "तत्र च स्थितेन त्वया विषमरिपुसमीकरणाय विधातव्यः केवलिसमुद्घाताख्यः "प्रयत्नो, निहन्तव्याश्च योगाख्यानयो दुष्टवेतालाः, ततः परं भविष्यति शैलेशीनाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org