________________
६७०
તર્કરહસ્યદીપિકા
5. ' तथा च' इत्युपदर्शने । तन्मतं प्रक्रमान्नास्तिकमतम् । तत्कीदृगित्याह अयं - प्रत्यक्षो लोको मनुष्यलोकः । एतावानेव एतावन्मात्र एव । यावान् यावन्मात्रः । इन्द्रियगोचरः इन्द्रियाणि स्पर्शनरसनघ्राणचक्षुः श्रोत्राणि पञ्च तेषां गोचरो विषयः, पञ्चेन्द्रियविषयीकृतमेव वस्तु विद्यते नापरं किमपि । लोकग्रहणाल्लोकस्थाः पदार्थसार्था ग्राह्याः । ततो यत्परे जीवं पुण्यपापे तत्फलं स्वर्गनरकादिकं च प्राहुः, तन्नास्ति, अप्रत्यक्षत्वात् । अप्रत्यक्षमप्यस्तीति चेत् । शशशृङ्गवन्ध्यास्तनन्धयादीनामपि भावोऽस्तु । न हि पञ्चविधेन प्रत्यक्षेण मृदुकठोरादिवस्तूनि तिक्तकटुकषायादिद्रव्याणि सुरभिदुरभिभावान् भूभूधरभुवनभूरुहस्तम्भाम्भोरुहादिनरपशुश्वापदादिस्थावरजङ्गमपदार्थसार्थान् विविधवेणुवीणादिध्वनींश्च विमुच्य जातुचिदप्यन्यदनुभूयते । यावता च भूतोद्भूतचैतन्यव्यतिरिक्तश्चैतन्यहेतुतया परिकल्प्यमानः परलोकयायी जीवः प्रत्यक्षेण नानुभूयते तावता जीवस्य सुखदुःखनिबन्धनौ धर्माधर्मी तत्प्रकृष्टफलभोगभूमी स्वर्गनरकौ पुण्यपापक्षयोत्थमोक्षसुखं चोपवर्ण्यमानानि आकाशे विचित्रचित्रविरचनमिव कस्य नाम न हास्यावहानि । ततो येऽत्रास्पृष्टमनास्वादितमनाघ्रातमदृष्टमश्रुतमपि जीवादिकमाद्रियमाणाः स्वर्गापवर्गादिसुखलिप्सया विप्रलब्धबुद्धयः शिरस्तुण्डमुण्डनदुश्चरतरतपश्चरणाचरणसुदुःसहतपनातपसहनादिक्लेशैर्यत्सौवं जन्म क्षपयन्ति तत्तेषां महामोहोदेकविलसितम् तदुक्तम्
"
" तपांसि यातनाश्चित्राः संयमो भोगवञ्चना । अग्निहोत्रादिकं कर्म बालक्रीडेव लक्ष्यते ॥ १ ॥ यावज्जीवेत्सुखं जीवेत्तावद्वैषयिकं सुखम् । भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥ २॥ " इत्यादि ततः सुस्थितमिन्द्रियगोचर एव तात्त्विक इति ॥
,
5. [કોઈ ચાર્વાક પોતાની ધર્મભીરુ સ્ત્રીને રીંછનાં પગલાંનાં કૃત્રિમ ચિહ્નો દ્વારા અનુમાનની વ્યર્થતા દર્શાવીને તેને સુખદાયી વિષયભોગોમાં રત રહેવાની પ્રેરણા કરે છે.] આ પ્રત્યક્ષ દેખાતો મનુષ્યલોક સ્પર્શન, રસન, પ્રાણ, ચક્ષુ અને શ્રોત્ર આ પાંચ ઇન્દ્રિયોના વિષય બનનારા પદાર્થો સુધી જ સીમિત છે. તેમનાથી પર એવી કોઈ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org