________________
૬૨૦
तत्र परं सत्ताख्यं द्रव्यत्वाद्यपरमथ विशेषस्तु । - निश्चयतो नित्यद्रव्यवृत्तिरन्त्यो विनिर्दिष्टः ॥ ६५ ॥ 39. હવે આચાર્ય પર અને અપર સામાન્યનું નિરૂપણ કરે છે તે બેમાં સત્તા નામનું પરસામાન્ય છે તથા દ્રવ્યત્વ, ગુણત્વ આદિ અપરસામાન્ય છે. પરમાર્થ દૃષ્ટિએ નિત્ય દ્રવ્યોમાં રહેનારો અન્ય વિશેષ છે. (૬૫)
—
40. व्याख्या–तत्र– तयोः परापरयोर्मध्ये परं सामान्यं सत्ताख्यम् । इदं सदिदं सदित्यनुगताकारज्ञानकारणं सत्तासामान्यमित्यर्थः । तच्च त्रिषु दव्यगुणकर्मसु पदार्थेषु सत्सदित्यनुवृत्तिप्रत्ययस्यैव कारणत्वात्सामान्यमेवोच्यते, न तु विशेषः । अथापरमुच्यते 'दव्यत्वादि' द्रव्यत्वं गुणत्वं कर्मत्वं चापरं सामान्यम्, तत्र नवसु द्रव्येषु द्रव्यं द्रव्यमिति बुद्धिहेतुर्दव्यत्वम् । एवं गुणेषु गुणत्वबुद्धिविधायि गुणत्वं, कर्मसु च कर्मत्वबुद्धिकारणं कर्मत्वम् । तच्च द्रव्यत्वादिकं स्वाश्रयेषु द्रव्यादिष्वनुवृत्तिप्रत्ययहेतुत्वात्सामान्यमप्युच्यते, स्वाश्रयस्य च विजातीयेभ्यो गुणादिभ्यो व्यावृत्तिप्रत्ययहेतुतया विशेषोऽप्युच्यते । ततोऽपरं सामान्यमुभयरूपत्वात्सामान्यविशेषसंज्ञां लभते । अपेक्षाभेदादेकस्यापि सामान्यविशेषभावो न विरुध्यते । एवं
पृथिवीत्वस्पर्शत्वोत्क्षेपणत्वगोत्वघटत्वादीनामप्यनुवृत्तिव्यावृत्तिहेतुत्वात्सामान्यविशेषभावः सिद्ध इति । अत्र सत्तायोगात्सत्त्वं यदिष्यते तद्रव्यगुणकर्मस्वेव न पुनराकाशादिषु, आकाशकालदिक्षु हि वस्तुस्वरूपमेवास्तित्वं स्वीक्रियते व्यक्त्यैक्यादिकारणैः । तथा चोदयनः
તર્કરહસ્યદીપિકા
"व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः । रूपहानिरसंबन्धो जातिबाधकसंग्रहः ॥ १॥"
-
Jain Education International
[ प्रशः० किरणा० पृ० ३३]
40. पर अने अपर सामान्यमां सत्ता नामनुं पर सामान्य छे. 'खा सत्छे' 'खा સત્ છે’ એવા એકાકાર જ્ઞાનનું અર્થાત્ અનુગત જ્ઞાનનું કારણ સત્તા છે. દ્રવ્ય, ગુણ અને કર્મ આ ત્રણ પદાર્થોમાં ‘આ સત્ છે’, ‘આ સત્ છે’ એવા એકાકાર જ્ઞાનનું અર્થાત્ અનુગત જ્ઞાનનું કારણ હોવાથી સત્તા કેવલ સામાન્યરૂપ જ છે, વિશેષરૂપ પણ નથી. દ્રવ્યત્વ, ગુણત્વ, કર્મત્વ આદિ અપર સામાન્યો છે. દ્રવ્યત્વ પૃથ્વી આદિ નવ દ્રવ્યોમાં
For Private & Personal Use Only
www.jainelibrary.org