________________
જૈનમત
उ७७ सति मत्स्यस्य स्वयमेव संजातजिगमिषस्योपग्राहकं जलं निमित्ततयोपकरोति, दण्डादिवत्कुम्भकारे कर्तरि मृदः परिणामिन्याः, नभोवद्वा नभश्चरतां नभश्चराणामपेक्षाकारणं, न पुनस्तज्जलं गतः कारणभावं बिभ्राणमगच्छन्तमपि मत्स्यं बलात्प्रेर्य गमयति, क्षितिर्वा स्वयमेव तिष्ठतो द्रव्यस्य स्थानभूयमापनीपद्यते, न पुनरतिष्ठद्व्यं बलादवनिरवस्थापयति । व्योम वावगाहमानस्य स्वत एव द्रव्यस्य हेतुतामुपैत्यवगाहं प्रति, न पुनरनवगाहमानमवगाहयति स्वावष्टम्भात् । स्वयमेव कृषीवलानां कृष्यारम्भमनुतिष्ठतां वर्षमपेक्षाकारणं दृष्टम्, न च नुनकुर्वतस्तांस्तदर्थमारम्भयद्वर्षवारि प्रतीतम्, प्रावृषि वा नवाम्भोधरध्वनिश्रवणनिमित्तोपाधीयमानगर्भा स्वत एव प्रसूते बलाका, न चाप्रसूयमानां तामभिनवजलधरनिनादः प्रसभं प्रसावयति । प्रतिबुध्य वा पुरुषः प्रतिबोधनिमित्तामवद्याद्विरतिमातिष्ठमानो दृष्टो; न च पुमांसमविरतं विरमयति बलात्प्रतिबोधः । न च गत्युपकारोऽवगाहलक्षणाकाशस्योपपद्यते, किं तर्हि । धर्मस्यैवोपकारः स दृष्टः । स्थित्युपकारश्चाधर्मस्य नावगाहलक्षणस्य व्योम्नः । अवश्यमेव हि द्रव्यस्य द्रव्यान्तरादसाधारणः कश्चिद्गुणोऽभ्युपेयः । द्रव्यान्तरत्वं च युक्तेरागमाद्वा निश्चयम् । युक्तिरनन्तरमेवाग्रतो वक्ष्यते । आगमस्त्वयम्-"कइणं भंते, दव्वा पण्णत्ता। गोयमा, छ दव्वा पण्णत्ता । तं जहा-धम्मत्थिकाए, अधम्मत्थिकाए, आगासस्थिकाए, पुग्गलत्थिकाए, जीवत्थिकाए, अद्धासमए ।" ननु धर्मद्रव्योपकारनिरपेक्षमेव शकुनेरूत्पतनम्, अग्नेरूज्वलनं, मरुतश्च तिर्यक्पवनं स्वभावादेवानादिकालीनादिति । उच्यते । प्रतिज्ञामात्रमिदं नार्हन्तं प्रति हेतुदृष्टान्तावनवद्यौ स्तः, स्वाभाविक्या गतेधर्मद्रव्योपकारनिरपेक्षायास्तं प्रत्यसिद्धत्वात्, यतः सर्वेषामेव जीवपुद्गलानामासादितगतिपरिणतीनामुपग्राहकं धर्ममनुरुध्यन्तेऽनेकान्तवादिनः, स्थितिपरिणामभाजां चाधर्मः, आभ्यां च न गतिस्थिती क्रियेते, केवलं साचिव्यमात्रेणोपकारकत्वं, यथा भिक्षा वासयति, कारीषोऽग्निरध्यापयतीति ।
200. शं-पुदगल ५२मा तथा ॥४॥२मानि अनुमान तो तमनायो દ્વારા થાય છે એ તો સમજાય એવી વાત છે. પરંતુ ધર્મદ્રવ્ય અને અધર્મદ્રવ્યનું અનુમાન કેવી રીતે થાય છે ? તેિમનાં તો કાર્યો પણ પ્રત્યક્ષ દેખાતાં નથી, તો પછી તેમનું અનુમાન થાય કઈ રીતે?]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org