SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ 306 તર્કરહસ્યદીપિકા स्वप्नेऽपि प्रतीयते । अप्रतीतस्यापि कल्पने कल्पनागौरवं प्रतिनियतवस्तुव्यवस्थाया अभावश्च स्यात् । न च जडरूपस्य शरीरस्य घटादेरिवाहंप्रत्ययोऽनुपपन्नः इति वाच्यम्; चेतनायोगेन तस्य सचेतनत्वात् । न च सा चेतना जीवकर्तृका इति वाच्यम्; तस्याप्रतीतत्वात् तत्कर्तृत्वमयुक्तम्, खपुष्पादेरपि तत्प्रसङ्गात् । ततः प्रसिद्धत्वाच्छरीरस्यैव चैतन्यं प्रति कर्तृत्वं युक्तम् । तदन्वयव्यतिरेकानुविधायित्वाच्च । प्रयोगश्चात्र-यत् खलु यस्यान्वयव्यतिरेकावनुकरोति तत्तस्य कार्यं यथा घटो मृत्पिण्डस्य, शरीरस्यान्वयव्यतिरेकावनुकरोति च चैतन्यम्, तस्मात्तत्कर्तृत्वम् । अन्वयव्यतिरेकसमधिगम्यो हि सर्वत्र कार्यकारणभावः । तौ चात्र विद्येते, सति शरीरे चैतन्योपलब्धेः, असति चानुपलब्धेः । न च मृतशरीरे चैतन्यानुपलब्धेस्तदन्वयव्यतिरेकानुविधायित्वमसिद्धम् इति वाच्यम्; मृतावस्थायां वायुतेजसोरभावेन शरीरस्यैवाभावात्, विशिष्टभूतसंयोगस्यैव शरीरत्वप्रतिपादनात् । न च शरीराकारमात्रे चैतन्योत्पत्तिर्युक्ताः, चित्रलिखिततुरङ्गमादिष्वपि चैतन्योत्पत्तिप्रसङ्गात् । ततः सिद्धं शरीरकार्यमेव चैतन्यम् । ततश्च चैतन्यसहिते शरीर एवाहप्रत्ययोत्पत्तिः सिद्धा । इति न प्रत्यक्षप्रमेय आत्मा, ततश्चाविद्यमान एव । प्रयोगश्चात्र-नास्त्यात्मा, अत्यन्ताप्रत्यक्षत्वात्, यदत्यन्ताप्रत्यक्षं तन्नास्ति, यथा खपुष्पम् । यच्चास्ति तत्प्रत्यक्षेण गृह्यत एव, यथा घटः । अणवोऽपि ह्यप्रत्यक्षाः, किन्तु घटादिकार्यतया परिणतास्ते प्रत्यक्षत्वमुपयान्ति, न पुनरेवमात्मा कदाचिदपि प्रत्यक्षभावमुपगच्छति, अतोऽत्रात्यन्तेति विशेषणमिति न परमाणुभिर्व्यभिचार इति । 101. याठिी वने स्वतन्त्र तत्व नथी मानता. तमो ®वना स्वतन्त्र અસ્તિત્વનો વિરોધ કરી નીચે મુજબ ચર્ચા કરે છે. ચાર્વાક-જગતમાં જીવ યા આત્મા નામનું કોઈ સ્વતન્ત તત્ત્વ નથી. પૃથ્વી, જલ આદિ ભૂતો જ ઉપલબ્ધ થાય છે, તે ભૂતો જયારે શરીરરૂપે પરિણમે છે ત્યારે શરીરરૂપે પરિણમેલા ભૂતો જ શરીરમાં ચેતનાને પેદા કરે છે, આમ ભૂતો જચેતનાનું કારણ છે. પૃિથ્વી, જલ આદિના વિશિષ્ટ સંયોજનરૂ૫ શરીરમાં ચેતનાનો આવિર્ભાવ થાય છે. કિવ આદિના સંયોજનમાં માદકતા પ્રકટે છે. ઓક્સિજન અને હાઈડ્રોજન તત્ત્વોના વિશિષ્ટ સંયોજનરૂપ પાણીમાં ઓક્સિજન અને હાઈડ્રોજન તત્ત્વોમાં ન હોય તેવા ગુણો આવિર્ભાવ પામે છે. આ આપણા અનુભવની વાત છે. તેવું જ ચેતના યા જ્ઞાન Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002138
Book TitleBharatiya Tattvagyan
Original Sutra AuthorN/A
AuthorNagin J Shah
Publisher108 jain Tirth Darshan Trust
Publication Year2009
Total Pages819
LanguageGujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy