________________
૧૮૫
સાંખ્યમત ५यास छ. (३४)
7. अथ तत्त्वपञ्चविंशतिमेव विवक्षुरादौ सत्त्वादिगुणस्वरूपमाह । सत्त्वं रजस्तमश्चेति ज्ञेयं तावद्गुणत्रयम् । प्रसादतापदैन्यादिकार्यलिङ्ग क्रमेण तत् ॥३५॥
1. હવે આ પચ્ચીસ તત્ત્વોનું નિરૂપણ કરવાની ઇચ્છા ધરાવતા આચાર્ય સૌપ્રથમ સત્ત્વ આદિ ગુણોનું સ્વરૂપ વર્ણવે છે–
સત્ત્વ, રજસું અને તમસું એ ત્રણ ગુણો છે એ જાણો. પ્રસાદ, તાપ અને દીનતા આદિ કાર્યોરૂપ લિગો દ્વારા ક્રમશઃ તેમનું અનુમાન થાય છે. (૩૫).
8. तावच्छब्दः प्रक्रमे तच्चैवं ज्ञातव्यं (व्यः) । तेषु प्रञ्चविंशतौ तत्त्वेषु सत्त्वं सुखलक्षणम्, रजो दुःखलक्षणम्, तमश्च मोहलक्षणमित्येवं प्रथम तावद्गुणत्रयं ज्ञेयम् । तस्य गुणत्रयस्य कानि लिङ्गानीत्याह- 'प्रसाद' इत्यादि । तत्सत्त्वादिगुणत्रयं क्रमेण प्रसादतापदैन्यादिकार्यलिङ्गम् । प्रसादःप्रसन्नता, तापः-संतापः, दैन्यं-दीनवचनादिहेतुर्विषण्णता, द्वन्द्वे प्रसादतापदैन्यानि, तानि आदिः प्रकारो येषां कार्यणां तानि प्रसादतापदैन्यादीनि, प्रसादतापदैन्यादीनि कार्याणि लिङ्ग-गमकं-चिह्नं यस्य तत्प्रसादतापदैन्यादिकार्यलिङ्गम् । अयं भावः । प्रसादबुद्धिपाटवलाधवप्रसवानभिष्वङ्गाद्वेषप्रीत्यादयः कार्यं सत्त्वस्य लिङ्गम् । तापशोषभेदचलचित्ततास्तम्भोद्वेगा: कार्य रजसो लिङ्गम् । दैन्यमोहमरणसादनबीभत्साज्ञानागौरवादीनि कार्यं तमसो लिङ्गम् । एभिः कार्यैः सत्त्वादीनि ज्ञायन्ते । तथाहि-लोके यः कश्चित्सुखमुपलभते स आर्जवमार्दवसत्यशौचहीबुद्धिक्षमानुकम्पाप्रसादादिस्थानं भवति, तत्सत्त्वम् । यः कश्चिद् दुःखमुपलभते स तदा द्वेषद्रोहमत्सरनिन्दावञ्चनबन्धनतापादिस्थानं भवति, तदजः । यः कश्चित्कदापि मोहं लभते, सोऽज्ञानमदालस्यभयदैन्याकर्मण्यतानास्तिकताविषादोन्मादस्वप्नादिस्थानं भवति, तत्तम इति।
8. शोभi duqt' २०६ प्रमन। अर्थमा छ. ते प्रम मा प्रभा छ - ते પચ્ચીસ તત્ત્વોમાં સૌપ્રથમ સુખલક્ષણવાળા સત્ત્વ, દુઃખલક્ષણવાળા રજસ્ અને મોહલક્ષણવાળા તમસ એ ત્રણ ગુણોને અર્થાત્ તેમનાં સ્વરૂપને સમજી લેવાં જોઈએ. તે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org