________________
૧ ૨ ૨
તર્કરહસ્યદીપિકા 38. अपरे त्वेवं सूत्रं व्याचक्षते-तत्पूर्वकं प्रत्यक्षपूर्वकं त्रिविधमिति त्रिभेदमनुमानम् । के पुनर्भेदा इत्याह-पूर्ववदित्यादि । पूर्वशब्देनान्वयो व्यपदिश्यते, व्यतिरेकात्प्रागवसीयमानत्वात् पूर्वोऽन्ययः, स एवास्ति यस्य तत्पूर्ववत्केवलान्वय्यनुमानम् ॥१॥ शेषो व्यतिरेकः, स एवास्ति यस्य तच्छेषवत् केवलव्यतिरेकि च ॥२॥ सामान्येनान्वयव्यतिरेकयोः साधनाङ्गयोर्यदृष्टं तत्सामान्यतोदृष्टमन्वयव्यतिरेकि चेति ॥३॥
38. 2415 व्याच्या सूत्र ने भी प्रभारी समवे छ.- मनुमान तत्पूर्व અર્થાત્ પ્રત્યક્ષપૂર્વક છે, તેના ત્રણ પ્રકાર છે. તે ત્રણ પ્રકારો આ પ્રમાણે છે–પૂર્વવમાં જે “પૂર્વ' શબ્દ છે તેનો અર્થ અન્વય કરવાનો છે, કેમ કે વ્યતિરેકના પહેલાં અન્વયનું જ જ્ઞાન થાય છે, એટલે અન્વયે પૂર્વ છે. જે અનુમાનમાં કેવળ અન્યવયવ્યાપ્તિ જ મળે છે તેને પૂર્વવત્ અર્થાત કેવલાન્વયી અનુમાનકહે છે. “શેષ' શબ્દનો અર્થ વ્યતિરેક લેવાનો છે. જે અનુમાનમાં કેવળ વ્યતિરેકવ્યાપ્તિ જ મળે છે તે શેષવત્ અર્થાત્ કેવલવ્યતિરેકી અનુમાન છે. સમાનપણે અન્વય અને વ્યતિરેક બન્ને વ્યાપ્તિઓ જે અનુમાનમાં મળે છે તે સમાન્યતોદષ્ટ અર્થાત અન્વય-વ્યતિરેક અનુમાન છે. ____39. अथवा त्रिविधमिति त्रिरूपम् । कानि त्रीणि रूपाणीत्याह पूर्ववदित्यादि । पूर्वमुपादीयमानत्वात्पूर्वः पक्षः सोऽस्यास्तीति पूर्ववत्पक्षधर्मत्वम् । शेष उपयुक्तादन्यत्वात्साधर्म्यदृष्टान्तः सोऽस्त्यत्रेति शेषवत्सपक्षे सत्त्वम् । सामान्यतोदृष्टमिति विपक्षे मनागपि यन्न दृष्टं विपक्षे सर्वत्रासत्त्वं तृतीयं रूपम् । चशब्दात्प्रत्यक्षागमाविरुद्धत्वासत्प्रतिपक्षत्वरूपद्वयं च । एवं च पञ्चरूपलिङ्गालम्बनं यत्तत्पूर्वकं तदन्वयव्यतिरेक्यनुमानम् । विपक्षासत्त्वसपक्षसत्त्वयोरन्यतररूपस्यानभिसंबन्धात्तु चतूरूपलिङ्गालम्बनं केवलान्वयि केवलव्यतिरेकि चानुमानम् । तत्र 'अनित्यः शब्दः, कार्यत्वात् घटादिवदाकाशादिवच्च' इत्यन्वयव्यतिरेकी हेतुः ॥१॥ 'अदृष्टादीनि कस्यचित्प्रत्यक्षाणि, प्रमेयत्वात्, करतलादिवत्' इत्यत्र कस्यचित्प्रत्यक्षत्वे साध्येऽप्रत्यक्षस्य कस्यापि वस्तुनो विपक्षस्याभावादेव केवलान्वयी ॥२॥ सर्ववित्कर्तृपूर्वकं सर्वं कार्यम् कादाचित्कत्वात्, यत्सर्ववित्कर्तृपूर्वकं न भवति तन कादाचित्कं यथाकाशादि । अत्र सर्वस्य कार्यस्य पक्षीकृतत्वादेव सपक्षाभावात्केवलव्यतिरेकी । प्रसङ्गद्वारेण वा केवलव्यतिरेकी । यथा नेदं निरात्मकं जीवच्छरीरमप्राणादिमत्त्वप्रसङ्गाल्लोष्टवदिति प्रसङ्गः । प्रयोगस्त्वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org