________________
चतुथं सर्ग
११७ उच्छेदक बने तभी से यह राजीमती-नदी अङ्गार परिखा रेशमी वस्त्रों को तुषानल, चन्द्रमा को दावानल, कमल को विच्छू आभूषणों को त्रिकटु और पुष्प ताम्बलादि स्वाद्य एवं खाद्य सभी वस्तुओं को शरीर व्यापी विष समान मानती है ।। २९॥
अध्यारोप्य द्विरसनसनानन्धमादीनवं मां दीनां किश्चिद्दवयसि यदि प्राणितेशोचितं तत् । कौलोनाङ्क ध्रुवमितरथा लप्स्यसे लोकनाथ ! व्याजान्नाना नन तनुमतां नो निहन्त्यर्कजोऽपि ॥३०॥
अध्यारोप्य . हे प्राणितेश ! हे प्राणस्वामिन् ! यदि त्वं किञ्चित् आदीनवं दोषम् अध्यारोप्य मां दवयसि दूरीकरोषि, तत् तहि उचितं योग्यं । किंभूतम् आदीनवम्-द्विरसनसनानन्द्यं द्विरसनानां दुर्जनानां सना सर्वदा आनन्द्यं श्लाघनीयम् । किंभूतां माम्----दीनाम् । हे लोकनाथ ! इतरथा अन्यथा ध्रुवं निश्चितं कौलीनाङ्क दुर्यशोरूपलाञ्छनं लप्स्यसे प्राप्स्यसि । ननु निश्चितम् अर्कजोऽपि यमोऽपि व्याजान्नाना व्याज मिषं विना तनुमतां तनुमतः प्राणिनः नो निहन्ति न मारयति । तनुमताम् इति अत्र हन्ति धातुयोगे द्वितीयास्थाने षष्ठीज्ञेया ॥३०॥
हे प्राण प्रिय ! यदि दर्जनों को आनन्द देने वाला कोई दोष लगाकर आप मुझ दीन को सताते हैं तो यह ठीक ही है, अन्यथा आप कलङ्क के भागी होंगे । यहाँ तक कि यमराज भी बिना बहाने किसी को नहीं मारता है ॥३०॥
नो प्रत्यक्षानुमितिसमयैर्लक्ष्यमाणः प्रमाणैः । त्यागं कुर्वन्नसुखमपुषस्तावदुच्चैममेश !। संस्कारेण स्मृतिमुपगतः क्लेशदेष्टाऽसि यावत् निष्प्रामाण्या स्मृतिरिति गदनक्षपादो न दक्षः ॥३१॥
नो प्रत्यक्षा ० हे ईश ! हे श्रीनेमे ! त्वं प्रत्यक्षानुमितिसमयैः प्रत्यक्षानुमानागमैः प्रमाणैः कृत्वा लक्ष्यमाणः सन् दृश्यमानः सन् मम त्यागं कुर्वन् सन् उच्च: अतिशयेन तावत् असुखं दुःखं न अपुषः न पुष्टवान् यावत् संस्कारेण वासनया स्मृतिम् उपगतः स्मरणं प्राप्तः सन् क्लेशदेष्टाऽसि क्लेशदायको वर्तसे । अतः कारणात् हे ईश ! अक्षपादो नैयायिकानां गुरुः न दक्षः न चतुरः । किं कुर्वन्इति गदन् इति व्यक्तं जल्पन् । इतीति किं-स्मतिः निष्प्रामाण्या प्रमाणरूपा न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org